संस्कृत-शब्दकोशः

प्रागुदीची प्राग्भक्त

प्राग्ज्योतिष

वाचस्पत्यम्

प्राग्ज्योतिष ||‍ पु० कामरूपदेशे हमच० । तत्र पूर्वं नरकासुरस्य पुरी आसीत् यथा कालिका० ३७ अ० “करतोया सत्य गङ्गा पूर्वभागावधिश्रिता । यावल्ललितकान्तास्ति ताव- द्देशं पुपं तव । तत्र देवी महामाया योगनिद्रा जगत्- प्रसृः । कामाख्यारूपमास्थाय सदा तिष्ठति शोभना । तत्रास्ति नदराजोऽयं लौहित्यो ब्रह्मणः सुतः । तत्रैव दश दिक्पालाः स्वे स्वे पीठे व्यवस्थिताः । तत्र खयं महादेवो ब्रह्मा वाऽहञ्च (हरिश्च) सर्वदा । चन्द्रः सूर्यश्च सततं वसेत् तत्रैव पुत्रक! । सर्वे क्रीडार्थमायाता रह- स्यदेशमुत्तमम् । तत्र श्रीः सर्वतो भद्रा भोग्यमत्र सदा बहु । अत्रैव हि स्थितो ब्रह्मा प्राङ् नक्षत्रं समर्ज ह । ततः प्राग्ज्योतिषाख्येयं पुरी शक्रपुरीसमा । अत्र त्वं वस भद्रन्ते ह्यभिषिक्तो मया स्वयम्” । नरकं प्रति भग- वदुक्तिः । द्वापरे तत्र भगदत्तो नृप आसीत् यज्ञोक्तम् “तैरेव सहितः सर्वैः प्राग्ज्योतिषिसुपाद्रवत् । यत्र राजा महनासीद्भगदत्तो विशाव्यतेः!” भा० स० २५ अ० ।


शब्दकल्पद्रुमः

प्राग्ज्योतिषः || पुं, (प्राक् ज्योतिषं नक्षत्रं यत्र । तदुक्तं कालिकापुराणे । “अत्रैव हि स्थितो ब्रह्मा प्राङ् नक्षत्रं ससर्ज ह । ततः प्राग्ज्योतिषाख्येयं पुरी शक्रपुरीसमा ॥”)
कामरूपदेशः । इति हेमचन्द्रः । ४ । २२ ॥ स तु नरकराजपुरम् । यथा, — श्रीभगवानुवाच । “करतोया सत्यगङ्गा पूर्ब्बभागावधिश्रिता । यावल्ललितकान्तास्ति तावद्देशं पुरं तदा ॥ तत्र देवी महामाया योगनिद्रा जगत्प्रसूः । कामाख्यारूपमादाय सदा तिष्ठति शोभना ॥ अत्रास्ति नदराजोऽयं लौहित्यो ब्रह्मणः सुतः । अत्रैव दशदिक्पालाः स्वे स्वे पीठे व्यवस्थिताः ॥ अत्र स्वयं महादेवो ब्रह्मा चाहञ्च सर्व्वदा । चन्द्रः सूर्य्यश्च सततं वसतेऽत्रैव पुत्त्रक ! ॥ सर्व्वे क्रीडार्थमायाता रहस्यदेशमुत्तमम् । अत्र श्रीः सर्व्वतो भद्रा भोग्यमत्र सदा बहु ॥ अत्रैव हि स्थितो ब्रह्मा प्राङ्नक्षत्रं ससर्ज्ज ह । ततः प्राग्ज्योतिषाख्येयं पुरी शक्रपुरीसमा ॥ अत्र त्वं वस भद्रन्ते ह्यभिषिक्तो मया स्वयम् । ततो विदर्भराजस्य पुत्त्रीं मायाह्वयां हरिः । पुत्त्रार्थे वरयामास नरकस्य समां गुणैः ॥” इति कालिकापुराणे ३७ अध्यायः ॥ (इदानीं प्रसिद्धमासामप्रदेशकियदंशकुचविहार- कामरूपं पुरा प्राग्ज्योतिषाख्ययाभिहितम् ॥”)



Correction: