शब्दकल्पद्रुमः
प्राङ् || त्रि (प्रकर्षेण अञ्चतीति । प्र + अन्च् + “ऋत्विग्दधृक्स्रगिति ।” ३ । २ । ६९ । इति क्विन् । “अनिदितां हल उपधायाः क्ङिति ।” ६ । ४ । २४ । इति नलोपः । “उगिदचाम् ।” इति नुम् । संयोगान्तस्य लोपः । नुमो नका- रस्य । “क्विन् प्रत्ययस्य कुः ।” ८ । २ । ६२ । इति कुत्वेन ङकारः ।)
पूर्ब्बदिक । पूर्ब्बदेशः । पूर्ब्बकालः । इति मेदिनी । चे, ७ ॥