वाचस्पत्यम्
प्राचिन्वत् || पु० राजभेदे “जनमेजयः खल्वनन्तां नामोपयेमे माधवीं तस्यामस्य जज्ञे प्राचिन्वान्नाम । यः प्राचीं दिशं जिगाय यावत् सूर्य्योदयात् ततस्तस्य प्राचिन्वत्त्वस्” भा० आ० ९५ अ० ।