संस्कृत-शब्दकोशः

प्राड्विवेक प्राणक

प्राण

वाचस्पत्यम्

प्राण ||‍ पु० प्र + अण—करणे घञ् । १ ब्रह्मणि त्रिका० “अतएव प्राणः” शा० सू० १ । २ । १२ अतएव तल्लिङ्गात् प्राणशब्देन ब्रह्मैव तथा हि “सर्वाणि हवा इमानि भूतानि प्राण- मेवाभिसंविशन्ति प्राणमभ्युज्जिहते” इति छन्दो० उ० । सर्वभूतोत्पत्तिप्रलयहेतुरूपलिङ्गात् ब्रह्मण एव प्राणशब्द वाच्यता १ । १ । १२ सूत्रभाष्ये दृश्यम् । २ पञ्चवृत्तिके देहस्थे वायौ ३ बोले काव्यजीवने ४ रस ५ अनिले ६ बले च ७ पूरिते त्रि० मेदि० । ८ सूक्ष्मदेहसमष्ट्युप- हितचैतन्ये पु० वेदान्तसा० । ९ प्राणोपाधिके जीवे “प्राणीह माता प्राणः पितेति” श्रुतिः । भावे घञ् । १० जीवने च नासाग्रवर्त्तिनि प्रागननवति १२ वायौ “तस्य कर्म नासाग्रतो बहिर्गतिः” श्रीधरस्वामीः । देहस्थः पञ्चवृत्तिकः वायुश्च प्राणापानसमानोदानव्यानरूपः तत्रार्थे ब० व० । तेषां स्वरूपादि शा० ति० व्या० योगार्णवे उक्तं यथा “इन्द्रनीलप्रतीकाशं प्राणरूपं प्रकीर्त्तितम् । आस्यना- सिकयोर्मध्ये हृन्मध्ये नाभिमध्यगे । प्राणालय इति प्राहुः पादाङ्गुष्ठेऽपि के चन । अपानयत्यपानोऽयमा- हारं च मलार्पितम् । शुक्रं मूत्रं तथोत्सर्गमपानस्तेन मारुतः । इन्द्रगोपप्रतीकाशः सन्ध्याजलदसन्निभः । स च मेढ्रे च पायौ च ऊरुवङ्क्षक्षणजानुषु । जङ्घोदरे कृकाट्यां च नाभिमूले च तिष्ठति । व्यानोध्यानयते चान्नं सर्वव्याधिप्रकोपनः । महारजनसप्रख्यो हानो- पादानकारकः । स चाक्षिकर्णयोर्मध्ये कट्योर्वै गुल्फ- योरपि । प्रोष्ठस्थाने स्फिगुद्देशे तिष्ठत्यत्र निरन्तरम् । स्पन्दयत्यधरं वक्त्रं गात्रनेत्रप्रकोपनः । उद्वेजयति म- र्माणि उदानो नाम मारुतः । विद्युतपाकसवर्णः स्यादु- च्छूनाशनकारकः । प्यदयोर्हस्तयोश्चापि ततसन्धिषु च वर्त्तते । पीतं भक्षितमाघ्रातं रक्तपित्तकफानिलात् । समं नयति गात्राणि समानो नाम मारुतः । गोक्षीरस दृशाकारः सर्वदेहे व्यवस्थितः” । स च सांख्यमते इन्द्रियाणां सामान्यकरणवृत्तिरूपः न तु वायुविकारः यथोक्तं सां सू० प्र० भा० ||‍“सामान्यकरणवत्तिः प्राणाद्या वायवः पञ्च” सू० । “प्राणादिरूपाः पञ्च वायुवत्सञ्चारात् वायवो ये प्रसिद्धास्ते सामान्था साधारणी करणस्यान्वःकरणत्रयस्य वृत्तिः परिणामभेदा इत्यर्थः । तदेतत् कारिकयोक्तम् । “स्वा- लक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या । सामान्थकर- ष्णवृत्तिः प्राणाद्या वायवः पञ्चः” । इति अत्र कश्चित् प्रा- णाद्या वायुविशेषा एव ते चान्तःकरणवृत्त्या जीवनयोनि प्रयत्नरूपया व्याप्रियन्त इति कृत्वा प्राणाद्याअन्तः- करणवृत्तिरित्यभेदनिर्देश इत्याह । तन्न । “न वायुक्रिये पृथगुपदेशादिति” वेदान्तसूत्रेणप्राणस्य वायुत्ववायुपरि- णामत्वयोः स्फुटं प्रतिषेधादत्रापि तदेकवाक्यतौचि- त्यात् मनोधर्मस्य कामादेः प्राणक्षोभकतया सामा- नाधिकरण्येनैवौचित्याच्च । वायुप्राणयोः पृथगुपदेश श्रुतयस्तु “एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । स्वं वायुर्ज्योतिरापश्च पृथ्वी विश्वस्य धारिणी” इत्याद्याः । अतएव लिङ्गशरीरमध्ये प्राणानामगणनैऽपि न न्यूनता बुद्धेरेव क्रियाशक्त्या सुत्रात्मप्राणादिनामक- त्वादिति । अन्तःकरणपरिणामेऽपि वायुतुल्यसञ्चारवि- शेषाद्वायुदेवताधिष्ठितत्वाच्च वायुव्यवहारोपपत्तिरिति” प्र० भा० । १२ इन्द्रियस्थाने “सप्त शिरसि प्राणाः प्राणाः इन्द्रियाणि” ताण्ड्य० ब्रा० १ । १५ । २ “सप्त शीर्षण्याः प्राणाः मुखं नासिके अक्षिणी इन्द्रियाधिष्टानत्वात्” भा० । १३ घ्राणे ग्रहशब्दे २७४६ पृ० सू० । १४ दे- हस्थच्छिद्रे च तत्र प्राणीत्पत्तिमभिधाय तस्य गौणमुख्यभावः संख्या- विशेषावधारणम् इन्द्रियसामान्यवृत्तितो भेदादिकञ्च शा० सू० भा० २ । ४ पादे समर्थितं यथा “सप्त गतेर्विशेषितत्वाच्च” सू० “उत्पत्तिविषयः श्रुतिविप्र- तिषेधः प्राणानां परिहृतः, संख्याविषय इदानीं परि- ह्रियते । तत्र मुख्यं प्राणमुपरिष्टाद्वक्ष्यति । सम्प्रति तु कतीतरे प्राणा इति सम्प्रधारयति । श्रुतिविप्रतिपत्ते- श्चात्र विशयः । क्वचित् सप्त प्राणाः सङ्कीर्त्त्यन्ते “सप्त प्राणाः प्रभवन्ति तस्मात्” इति । क्वचिदष्टौ प्राणा ग्र- हत्वेन गुणेन सङ्कीर्त्त्यन्ते “अष्टौ ग्रहा अष्टावतिग्रहाः” इति, क्वचिन्नव “सप्त वै शीर्षण्याः प्राणा द्वाववाञ्ची” इति । क्वचिद्दश “नव वै पुरुषे प्राणा नाभिर्दशमा” इति । क्वचिदेकादश “दशेमे पुरुषे प्राणा आत्मैका- दशः” इति । क्वचिद्द्वादश “सर्वेषां स्पर्शानां त्वगेकायं- तनम्” इत्यत्र । क्वचित्त्रयोदश “चक्षुश्च द्रष्टव्यञ्च” इत्यत्र । एवं हि विप्रतिपन्नाः प्राणेयत्तां प्रति श्रुतयः । किं तावत् प्राप्तं सप्तैव प्राणा इति । कतः गतेः, यत- स्तावन्तोऽवगम्यन्ते “सप्त प्राणाः प्रभवन्ति तस्मात्” इत्येवंविधासु श्रुतिषु । विशेषिताश्चैते “सप्त वै शी- र्षण्याः प्राणाः” इत्यत्रं । ननु “गुहाशया निहिताः सप्त सप्त” इति वीप्सा श्रूयते, सा सप्तम्योऽतिरिक्तान् प्राणान् गमयतीति । नैष दोषः, पुरुषभेदाभिप्रायेयं वीप्सा प्रतिपुरुषं सप्त सप्त प्राणा इति न तत्त्वभे- दाभिप्राया सप्त सप्तान्येऽन्ये प्राणा इति । नन्वष्टत्वा- दिकापि संख्या प्राणषूदाहृता कथं सप्तैव स्युः । सत्य- मुदाहृता विरोधात्त्वन्यतमा संख्याध्यवसातव्या, तत्र स्तोककल्पनोपरोधात् सप्तसंख्याध्यवसानं वृत्तिभेदापेक्षञ्च सङ्ख्यान्तरश्रवणमिति गम्यते । अत्रोच्यते” भा० “ह- स्तादयस्तु स्थितेऽतो नैवम्” सू० “हस्तादयस्त्वपरे सप्त- भ्योऽतिरिक्ताः प्राणाः श्रूयन्ते, “हस्तो वै ग्रहः स कर्मणातिग्र्हेण गृहीतः, हस्ताभ्यां हि कर्म करोति” इत्येवमाद्यासु श्रुतिषु । एवं स्थिते च (अष्टादिसंख्यत्वे) सप्तत्वमन्तर्भावाच्छक्यते सम्भावयितुम् । हीनाधिक- सङ्ख्याविप्रतिपत्तौ ह्यधिका सङ्ख्या संग्राह्या भवति, तस्यां हि हीनान्तर्भवति, न तु हीनायामधिका । अतश्च नैवं मन्तव्यं स्तोककल्पनानुरोधात् सप्तैव प्राणाः स्युरिति । उत्तरसङ्ख्यानुरोधात्त्वेकादशैव ते प्राणाः स्युः । तथा चोदाहृता श्रुतिः “दशेमे पुरुषे प्राणा आत्मैकादशः” इति । आत्मशब्देन चात्रान्तःकरणं परिगृह्यते करणाधिकारात् । ननु एकादशत्वादप्य- धिके द्वादशत्वयोदशत्वे उदाहृते, न त्वेकादशभ्यः कार्यजातेभ्योऽधिकं कार्यजातमस्ति यदर्थम् अधिकं करणं कल्प्येत । शब्दस्पर्शरूपरसगन्धविषयाः पञ्च बुद्धिभेदास्तदर्थानि पञ्च बुद्धिन्द्रियाणि, वचनादान- विहरणोत्सर्गानन्दाः पञ्च कर्मभेदास्तदर्थानि च पञ्च क- र्मेन्द्रियाणि, सर्वार्थविवयं त्रैकाल्यवृत्ति मन एकमनेक- वृत्तिकं तदेव वृत्तिमेदात् क्वचिद्भिन्नवद्व्यपदिश्यते “मनो बुद्धिरहङ्कारश्चित्तञ्च” इति । तथा च श्रुतिः कामाद्या नानाविधा वृत्तीरनुक्रम्याह “एतत् सर्वं मन एव” इति । अपि च सप्तिव शीर्षण्यान् प्राणानभिमन्यमा- नस्य चत्वार एव प्राणा अभिमताः स्युः स्थानभेदा- द्ध्येते चत्वारः सन्तः सप्त गण्यन्ते, “द्वे श्रोत्रे द्वे च- त्तुषी द्वे नासिके एका वाक्” इति । न च तावतामेव वृत्तिभेदा इतरे प्राणा इति शक्यते वक्तुं हस्तादि- वृत्तीनामत्यन्तविजातीयत्वात् । तथा “नव वै पुरुषे प्राणा नाभिर्दशभी” इत्यत्रापि देहच्छिद्रभेदाभिप्रायेणैव दश प्राणा उच्यन्ते, न प्राणतत्त्वभेदाभिप्रायेण “ना- भिर्दशमी” इति वचनात् । न हि नाभिर्नाम कश्चित् प्राणः प्रसिद्धोऽस्ति, मुख्यस्य तु प्राणस्य भवति, नाभि- रपि एकं विशेषायतनमित्यतो नाभिर्दशमीत्युच्यते । क्वचिदुपासनार्थं कतिचित् प्राणा गण्यन्ते, क्वचित् प्रद- र्शनार्थम् । तदेवं विचित्रे प्राणेयत्ताम्नाने सति क्व किं परमाम्नानमिति विवेक्तव्यम् । कार्यजातवशात्त्वेका- दशत्वाम्नानं प्राणविषयं प्रमाणमिति स्थितम् । इयमं- परा सूत्रद्वययोजना । सप्तैव प्राणाः स्युः यतः सप्ता- नामेव गतिः श्रूयते “तमुत्क्रामन्तं प्राणोऽनूत्क्रागति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति” इत्यत्र । ननु सर्वशब्दोऽप्यत्र पठ्यते कथं सप्तानामेव गतिः प्रति- ज्ञायत इति, विशेषितत्वादित्याह । सप्तैव हि प्राणा- श्चक्षुरादयः त्वक्पर्य्यन्ताः विशेषिताः इह प्रकृताः, “स यत्रैष चाक्षुषः पुरुषः पराङ् पर्य्यावर्त्तत्रे अथारूपज्ञो भवति एकीभवति न पश्यतीत्याहुरित्येवमादिनानुक्रम- णेन । प्रकृतगामी च सर्वशब्दो भवति । यथा सर्वे त्राह्मणा भोजिता इति ये निमन्त्रिताः प्राकृता ब्राह्म- णास्त एव सर्वशब्देनोच्यन्ते नान्ये, एवमिहापि ये प्रकृताः सप्त प्राणास्त एव सर्वशब्देनोच्यन्ते नान्ये इति । नन्वत्र विज्ञानमष्टममनुक्रान्तं कथं सप्तानामेवानुक्रमणं नैष दोषः । मनोविज्ञानयोस्तत्त्वाभेदाद्वृत्तिभेदेऽपि सप्त- त्वोपपत्तेः । तस्मात् सप्तैवप्राणा इत्येव प्राप्ते व्रूमः । हस्तादयस्त्वपरे यप्तभ्योऽतिरिक्ताः प्राणाः प्रतीयन्ते हस्तो वै ग्रहः” इत्यादिश्रुतिषु । ग्रहत्बञ्च बन्धन- भावो गृह्यते बध्यते क्षेत्रज्ञोऽनेन ग्रहसंज्ञकेन बन्धने- नेति । स च क्षेत्रज्ञो नैकस्मिन्नेव शरीरे बध्यते शरी- रान्तरेष्वपि तुल्यत्वाद्बन्धनस्य । तस्माच्छरीरान्तरसञ्चा- रीदं ग्रहसंज्ञकं बन्धनमित्यर्थादुक्तं भवति । तथा च स्मृतिः “पुर्य्यष्टकेन लिङ्गेन प्राणाद्येन स युज्यते । तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च” इति । प्राङ्मोक्षाद्ग्रहसंज्ञकेनानेन बन्धनेनावियोगं दर्शयति । आथर्वणे च विषयेन्द्रियानुक्रमणे “चक्षुश्च द्रष्टव्यञ्च” इत्यत्र तुल्यबद्धस्तादीनीन्द्रियाणि सविषयाण्यनुक्रामति “हस्तौ चादातव्यञ्च उपस्थश्चानन्दयितव्यञ्च पायुश्च वि- सर्जयितव्यञ्च पादौ च गन्तव्यञ्च” इति । तथा “दशेमे पुरुषे प्राणा आत्मैकादशः ते यदास्याच्छरीरान्मर्त्यादुत्- क्रामन्त्यथ रोदयन्ति” इत्येकादशानां प्राणानामुत्क्रान्तिं दर्शयति । सर्वशब्दोऽपि च प्राणशब्दे न सम्बध्यमानो- ऽशेषान् प्राणानभिदधानी न प्रकरणवशेन सप्तस्वेव व्यवस्थापयितुं शक्यते प्रकरणाच्छब्दस्य च बलीयस्त्वात् । सर्वे ब्राह्मणा भोजिता इत्यत्रापि सर्वेषामेव अवनि- वर्त्तिनां ब्राह्मणानां ग्रहणं न्याय्यं सर्वशब्दसामर्थ्यात् । सर्वभोजनासम्भवात् तु तत्र निमन्त्रितमात्रविषया सर्व- शब्दस्य वृत्तिराश्रिता, इह तु न किञ्चित् सर्वशब्दार्थ- सङ्कोचकारणमस्ति, तस्मात् सर्वशब्देनात्राशेषाणां प्रा- णानां परिग्रहप्रदर्शनार्थं सप्तानामनुक्रमणमित्यनवद्यम् । तस्मादेकादशैव प्राणाः शब्दतः कार्य्यतश्चेति सिद्धम्” भा० “अणवश्च” सू० “अधुना प्राणानामेव स्वभावान्तरमभ्युच्चि- नोति । अणवश्चैते प्रकृताः प्राणाः प्रतिपत्तव्याः । अणु- त्वञ्चैषां सौक्ष्म्यपरिच्छेदौ न परमाणुतुल्यत्वं, कृत्स्न- देहव्यापिकार्य्यानुपपत्तिप्रसङ्गात् । सूक्ष्मा एते प्राणाः स्थूलाश्चेत् स्युः मरणकाले शरीरान्निर्गच्छन्तो बिलादहि- रिवोपलभ्येरन् म्रियमाणस्य पार्श्वस्थैः । परिच्छिन्ना- श्चैते प्राणाः सर्वगताश्चेत् स्युः उत्क्रान्तिगत्यागतिश्रुति- व्याकोपः स्यात्, तद्गुणसारत्वञ्च जीवस्य न सिध्येत् । सर्वगतानामपि वृत्तिलाभः शरीरदेशे स्यादिति चेत्, न, वृत्तिमात्रस्य करणत्वोपपत्तेः । यदेव तूपलब्धिसाधनं वृत्तिः अन्यद्वा तस्यैव नः करणत्वं तेन संज्ञामात्रे विवाद इति करणानां व्यापित्वकल्पना निरर्थिका । तस्मात् तूक्ष्माः परिच्छिन्नाश्चैते प्राणा इत्यध्यवस्यामः” भा० “श्रेष्ठश्च” सू० “मुख्यश्च प्राणः इतरप्राणवद्ब्रह्मविकार इत्यतिदिशति । नन्विशेषेणैव सर्वप्राणानां ब्रह्मविकारत्वमाख्यातम् “एत- स्माज्जायते प्राणो ममः सर्वेन्द्रियाणि च” इति, मे- न्द्रियमनोव्यतिरेकेणापि प्राणस्योत्पत्तिश्रवणात्, “स प्राण- मसृजत” इत्यादिश्रबणेभ्यश्च । किमर्थः पुनरतिदेशः, अधिकाशङ्काकारणार्थः । नासदासीये हि ब्रह्मप्रधाने सूक्ते मन्त्रवर्णो भवति, “न मृत्युरासीदसृतं न ताह न रात्र्या अह्न आसीत् प्रकेतः आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परं किञ्च नाम” इति । आनीदिति प्राण- कर्मोपादानात् प्रागुत्पत्तेः सन्तमिव प्राणं सूचयति । तस्मात् अजः प्राण इति जायते कस्यचिन्मतिः, तामति- देशेनापनुदति । आनीच्छब्दोऽपि न प्रागुत्पत्तेः प्राण- सद्भावं सूचयति । अवातमिति विशेषणात् “अप्राखो ह्यमना शुभ्रः” इति च मूलप्रकृतेः प्राणादिसमस्तविशेष- रहितत्वस्य दर्शितत्वात् । तस्मात् कारणसद्भावप्रदर्शनार्थ एवायमानीच्छब्द इति । श्रेष्ठ इति च मुख्यं प्राणममि- दधाति, “प्राणो वाव ज्येष्ठः श्रेष्ठश्च” इति श्रुतिनिर्दे- शात् भा० “ज्येष्ठश्च प्राणः” सू० “शुक्रनिषेककालादारभ्य तस्य वृत्तिलाभात्, न चेत् तस्य तदानीं वृत्तिलाभः स्यात् योनौ निषिक्तं शुक्रं पूयेत न सम्भवेद्वा, श्रोत्रादीनान्तु कर्णशष्कुल्यादिस्थानबिभागनिष्पत्तौ वृत्तिलाभान्न ज्येष्ठ- त्वम्” भा० “श्रेष्ठश्च प्राणः गुणाधिक्यात्” सू० “न वै शक्ष्यामस्त्वदृते जीवितुम्” इति श्रुतेश्च भा० । “न वायुक्रिये पृथगुपदेशात्” सू० “स पुनर्मुख्यः प्राणः किंस्वरूप इतीदानीं जिज्ञास्यते । तत्र प्राप्तं तावत् श्रुतेर्वायुः प्राण इति, एवं हि श्रूयते, “यः प्राणः स एष वायुः पञ्च- विधः प्राणोऽपानो व्यान उदानः समानः” इति । अथ वा तन्त्रान्तरीयाभिप्रायात् समस्तकरण वृत्तिः प्राण इति प्राप्तं, एवं हि तन्त्रान्तरीया आचक्षते । “सामान्या करणवृत्तिः प्राणाद्या वायवः पञ्च” इति । अत्रोच्यते । न वायुः प्राणः नापि करणव्यापारः कुतः पृथगुप- देशात् । वायोस्तावत् प्राणस्य पृथगुपदेशो भवति, “प्राण एव ब्रह्मणश्चतुर्थः पादः, स वाय्ना ज्योतिषा भाति च तपति च” इति । न हि वायुरेय सन् वायोः पृथगुपदिश्यते तथा करणवृत्तेरपि पृथगुपदेशो भवति, यागादीनि करणान्यनुक्रम्य तत्र तत्र पृथक्प्राणस्यानु- क्रमणात् । न हि करणव्यापार एव सन् करणेभ्यः पृथगुपदिश्येत । तथा “एतस्माज्जायते प्राणो सनः सर्वे न्द्रियाणि च । स्वं वायुः” इत्येवमाहयोऽपि वायोः कर- णेभ्यश्च प्राणस्य पृथगुपदेशा अनुसर्त्तव्याः । न च सम- स्तानां करणनामेका वृत्तिः सम्भवति, प्रत्येकमेकैक- वृत्तित्वात्, समुदायस्य चाकारकत्वात् । ननु पञ्जरवा- लनन्यायेन एतद्भविष्यति यथैकपञ्जरवर्त्तिना एकादश पक्षिणः प्रत्येकं प्रतिनियतव्यापाराः सन्तः सम्भूयैकं पञ्जरं चालयन्ति एवमेकशरीरवर्त्तिनः एकादश प्राणाः प्रत्येकं नियतवृत्तयः सन्तः सम्भूयैका प्राणाख्यां वृत्तिं प्रतिलप्स्यन्ते इति । नेत्युच्यते, युक्तम् तत्र प्रत्येक- वर्त्तिभिरबान्तरव्यापारैः पञ्जरचालनानुरूपैरेवोपेताः प- क्षिणः सम्भूयैकं पञ्जरं चालयेयुरिति तथा दृष्टत्वात् । इह तु श्रवणाद्यवान्तरव्यापारोषेताः प्राणा न सम्मूय प्राण्युरिति युक्तं, प्रमाणाभावात् अत्यन्तविजातीयत्वाच्च श्रवणादिभ्यः प्राणनस्य । तथा प्राणस्य श्रेष्ठत्वाद्युद्घो- षणं गुणभावोपगमश्च तं प्रति वागादीनां न करणवृत्ति- मात्रे प्राणेऽवकल्पते, तस्मादन्यो वायुक्रियाभ्यां प्राणाः” कथं तर्हीयं श्रुतिः, “यः प्राणः स वायुः” इति उच्यते । वायुरेवायमध्यात्ममपन्नः पञ्चव्यूहो विशेषा- त्मनावतिष्ठमानः प्राणो नाम भण्यते न तत्त्वान्तरं नापि वायुमात्रं, अतश्चोमे अपि भेदाभेदश्रुती न विरुध्येते । स्यादेतत्, प्राणोऽपि तर्हि जीववदस्मिन् शरीरे स्वातन्त्र्यं प्राप्नोति, श्रेष्ठत्वात् गुणभावोपगमाच्च तं प्रति वागादां- नामिन्द्रियाणाम् । तथा हि अनेकविधा बिभूतिः प्रा- णस्य श्राव्यते “सुप्तेषु वागादिषु प्राण एकैको जा- जर्त्ति प्राण एकैको मृत्युनाऽनाप्तः प्राणः संवर्गो वागा- दीन् संवृङुक्ते प्राण इतरान् प्राणान् रक्षति मातेव पुत्रान्” इति । तस्मात् प्राणस्यापि जीववत् स्वातन्त्र्य” प्रसङ्गः, तं परिहरति” भा० “चक्षुरादिवत्तु तत्सह- शिष्ट्यादिभ्यः” सू० “तुशब्दः प्राणस्य स्वातन्त्र्य व्याव- र्त्तयति । यथा चक्षुरादीनि राजप्रकृतिवत् जीवस्य कर्तृत्वं भोक्तृत्वं च प्रत्युपकरणानि न स्वतन्त्राणि तथा मुख्योऽपि प्राणो राजमन्त्रिवत् जीवस्य सर्वार्थत्वेन उपकरणभूतो न स्वतन्त्रः । कुतः तत्सहशिष्ट्यःदिभ्यः तैश्चक्षुरादिभिः सहैव प्राणः शिष्यते, प्राणसंवादादिषु समानधर्माणाञ्च सह शासनं युक्तं वृहद्रथन्तरादिवत् । आदिशब्देन संहतत्वाचेतनत्वादीन् प्राणस्य स्वातन्त्र्यनि- राकरणहेतून् दर्शयति । स्यादेतत् यदि चक्षुरादिवत् प्राणस्य जीवं प्रति करणभावोऽभ्युपगम्येत विषयान्तरं रूपादिवत् तस्य प्रसज्येत रूपालोचनाद्याभिर्वृत्तिभिर्यथा चक्षुरादीनां जीवं प्रति करणभावो भवति । अपि चैकादशैव कार्यजातानि रूपालोचनादीनि परिगणि- तानि यदर्थमेकादश प्राणाः संगृहीताः न तु द्वादशम- षरं कार्यजातमवगम्यते यदर्थमयं द्वादशः प्राणः प्रतिज्ञा- यत इति । अत उत्तरं पठति” भा० “अकरणत्वाच्च न दोषस्तथा हि दर्शयति” सू० “न तावद्विषयान्तरप्र- सङ्गो दोषः अकरणत्वात् प्राणस्य । न हि चक्षुरादि- वत् प्राणस्य विषयपरिच्छेदेन करणत्वमभ्युपगम्यते । न चास्यैतावता कार्य्याभाव एव । कस्मात्, तथा हि श्रुतिः प्राणान्तरेष्वसम्भाव्यमानं सुख्यप्राणस्य वैशे- षिक कायं दर्शयति । प्राणसंवादादिषु “अथ ह प्राणा अहं श्रेयसि व्यूदिरे” इत्युपक्रम्य “यस्मिन् व उत्क्रान्ते इदं शरीरं पापिष्ठतरमिव दृश्यते स वा श्रेष्ठः” इति चोप्रन्यस्य प्रत्येकं वागाद्युत्क्रमणेन तद्वृत्तिमात्रहीनं यथापूर्वं जीवनं मुख्यप्राणस्य वैशेषिकं कार्य्यं दर्शयित्वा प्राणोच्चिक्रमिषायां वागादिशेथिल्यापत्तिं शरीरपात- प्रसङ्गञ्च दर्शयन्ती श्रुतिः प्राणनिमित्तां शरीरेन्द्रिय- स्थितिं दर्शयति । “तान् वरिष्ठः प्राणः उवाच मा मोहमापद्यथाहमेवैतत् पञ्चधात्मानं प्रविभज्यैतद्वाणमव- ष्टभ्य विधारयामि” इति च । एतमेवार्थं श्रुतिराह । “प्राणेन रक्षन्नवरं कुलाये” इति च । सुप्तेषु चक्षुरादिषु प्राणनिमित्तां शरीररक्षां दर्शयति । “यस्मात् कस्मा- च्चाङ्गात् प्राण उत्क्रामति तदेव उच्छुष्यति तेन यदश्नाति यत् पिवति तेनेतरान् प्राणानवति” इति च प्राणनि- मित्तां शरीरेन्द्रियपुष्टिं दर्शयति । “कस्मिन्नहसुत्क्रान्ते उत्क्रान्तो भविष्यामि? कस्मिन्? वा प्रतिष्ठितेऽहं प्र- तिष्ठास्यामीति स प्राणमसृजत” इति प्राणनिमित्ते एव जीवस्योत्क्रान्तिप्रतिष्ठे दर्शयति” भा० । “पञ्चवृत्तिर्मनो बद्व्यपदिश्यते” सू० । “इतश्चास्ति मुख्यप्राणस्य वैशेषिकं कार्यं यत्कारणं पञ्चवृत्तिरयं व्यपदिश्यते श्रुतिषु “प्रा- णोऽपानो व्यान उदानः समानः” इति । वृत्तिभेदश्चायं कार्य्यभेदापेक्षः । प्राणः प्राग्वृत्तिरुच्छ्वासादिकर्मा, अपानोऽवाग्वृत्तिर्निश्वासादिकर्मा, व्यानः तयोः सन्धौ वर्त्तमानो वीर्य्यवत्कर्महेतुः, उदानः ऊर्ध्ववृत्तिरुत्- क्रान्त्यादिहेतुः, समानः समं सर्वेष्वङ्गेषु योऽन्नरसा- न्नयति इति । एवं पञ्चवृत्तिः प्राणः मनोवत् यथा मनसः पञ्च वृत्तयः एवं प्राणस्यापीत्यर्थः । श्रोत्रादिनि- मित्ताः शब्दादिविषयाः मनसः पञ्च वृत्तयः प्रसिद्धाः । न तु कामः सङ्कल्प इत्याद्याः परिपठिताः परिगृह्ये- रन्, पञ्चसङ्ख्यातिरेकात् । नन्वत्रापि श्रोत्रादिनिर- पेक्षा भूतभविष्यदादिविषयाऽपरा मनसो वृत्तिरस्तीति समानः पञ्चसङ्ख्यातिरेकः । एवं तर्हि परमतमप्रति- षिद्धमनुमतं भवतीति न्यायादिहापि योगशास्त्रप्रसिद्धा मनसः पञ्च वृत्तयः परिगृह्यन्ते प्रमाणविपर्य्ययविकल्प- निद्रास्मृतयो नाम । बहुवृत्तित्वमात्रेण वा मनः प्राणस्य निदर्शनमिति द्रष्टव्यम् । जीवोपकरणत्वमपि प्राणस्य पञ्चवृत्तित्वान्मनोवदिति योजयितव्यम्” भा० । “अणुश्च” सू० । “अणुश्चायं मुख्यः प्राणः प्रत्येतव्यः इतरप्राणवत् । अणु- त्वञ्चेहापि सौक्ष्म्यपरिच्छेदौ न परमाणुतुल्यत्वं, पञ्च- भिर्वृत्तिभिः कृत्स्नशरीरव्यापित्वात् । सूक्ष्मः, प्राण उत्क्रान्तौ पार्श्वस्थेनानुपलभ्यमानत्वात्, परिच्छिन्न- श्रोत्क्रान्तिनत्यागतिश्रुतिभ्यः । ननु विभुत्वमपि प्राणस्य समाम्नायते, “समः प्लषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण” इत्येवमा दिषु प्रदेशेषु । तदुच्यते, आधिदैविकेन समष्टिरूपेण हैरण्यगर्भेण प्राणात्मना एतद्विभुत्वमाम्नायते नाध्या- त्मिकेन । अपि च समः प्लुषिणेत्यादिना साम्यवचनेन प्रतिप्राणिवर्त्तिनः प्राणस्य परिच्छेद एव प्रदर्श्यते तस्मा- ददोषः” भा० । “ज्योतिराद्यधिष्ठानन्तु तदामननात्” सू० । “ते पुनः प्रकृताः प्राणाः किं स्वमहिम्नैव स्वस्मै स्वस्मै कार्य्याय प्रभवन्ति आहोस्विद्देवताधिष्ठानाः प्रभवन्तीति विचार्य्यते । तत्र प्राप्तं तावद्यथा, स्वकार्य्यशक्तियोगात् स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति । अपि च देवता- धिष्ठितानां प्राणानां प्रवृत्तावभ्यु पगम्यमानाया तासा- मेवाधिष्ठात्रीणां देवतानां भोक्तृत्वप्रसङ्गात् शारीरस्य भोक्तृत्वं प्रलीयेत, अतः स्वमहिम्नैवैषां प्रवृत्तिरिति, एवं प्राप्ते इदमुच्यते । ज्योतिराद्यधिष्ठानन्त्विति । तुशब्देन पूर्वपक्षो व्यावर्त्त्यते । ज्योतिरादिभिरग्न्या- द्यभिमानिनीभिर्देवताभिरधिष्ठितं वागादिकरणजात स्व- स्वकार्य्येषु प्रवर्तत इति प्रतिजानीते । हेतुञ्च व्याचष्टे तदामननादिति । तथा ह्यामनन्ति “अग्निर्वाग्भूत्वा मुखं प्राविशदित्यादि” । अग्नेश्चायं वाग्भावो मुखप्रवेशश्च देवतात्मनोऽधिष्ठातृत्वमङ्गीकृत्योच्यते । नहि देवता- सम्बन्धं प्रत्याख्यायाग्नेर्वाचि मुखे वा कश्चिद्विशेषः सम्बन्धो दृश्यते । तथा “वायुः प्राणो भूत्वा नासिके प्राबिशत्” इत्येवमाद्यपि योजयितव्यम् । तथान्यात्रापि “वानेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च” इत्येवमादिना वागादीनामग्न्यादिज्योति- ष्ट्ववचनेनैतभेवार्थं द्रढयति । “स वै वाचमेव प्रथममत्य- वहत् सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत्” इति च । एवमादिना वागादीनामग्न्यादिभावापत्तिवचनेनैतमेवार्थ द्योतयति । सर्वत्र चाध्यात्माधिदैवतविभागेन वागाद्य- ग्न्याद्यनुक्रमणमनयैव प्रत्यासत्त्या भवति । स्मृतावपि “वागध्यात्ममिति प्राहुः ब्राह्मणास्तत्त्वदर्शिनः । वक्तव्य- मधिभूतन्तु वह्निस्तत्राधिदैवतम्” इत्यादिना वागादी- नामग्न्यादिदेवताधिष्ठितत्वं सप्रपञ्चं प्रदर्शितम् । यदुक्तं स्वकार्य्यशक्तियोगात् स्वमहिम्नैव प्राणाः प्रवर्त्ते- रन्निति तदयुक्तम् अशक्तानामपि शकटादीनामानडुदा- द्यधिष्ठितानां प्रवृत्तिदर्शनात् । उपयथोपपत्तौ चाग- माहेवताधिष्ठितत्वमेव निश्चीयते । यदप्युक्तं देवताना- मेवाधिष्ठात्रीणां भोक्तृत्वप्रसङ्गो न शारीरस्य जीवस्येति तत् परिहियते” भा० । “प्राणवता शब्दात्” सू० । “सतीष्वपि प्राणानामधिष्ठात्रीषु देवतासु प्राणवता कार्यकरणसङ्घात- स्यामिना शारीरेनैवैषां प्राणानां सम्बन्धः श्रुतेरवगम्यते । तथा हि श्रुतिः “अथ यत्रैतदाकाशमनुप्रविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्रा- णीति स आत्मा गन्धाय घ्राणम्” इत्येवंजातीयका शारीरेणैव प्राणानां सम्बन्धं श्रावयति । अपि चानेक- त्वात् प्रतिकरणमधिष्ठात्रीणो देवतानां न भोक्तृत्व- मेकस्मिन् शरीरेऽवकल्पते । एको ह्ययमस्मिन् शरीरे शा- रीरो भोक्ता प्रतिसन्धानादिसम्भवादवगम्यते” भा० । “तस्य च नित्यत्वात्” सू० । “तस्य च शारीरस्यास्मिन् शरीरे भोक्तृत्वेन नित्यत्वं पुण्यपापोपलेपसम्भवात् सुस्वदुः- खोपभोगसम्भवाच्च न देवतानाम् । ता हि परस्मिन्नै- श्वर्य्ये पदेऽवतिष्ठमाना न हीमेऽस्मिंच्छरीरे भोक्तृत्वं प्रतिलब्धुमर्हन्ति । श्रुतिश्च भवति “पुण्यमेवामुं गच्छति न ह वै देवान् पापं गच्छति इति शारीरेणैव च नित्यः प्राणानां सम्बन्धः” भा० । “उतक्रान्त्यादिषु तदनुवृत्ति- दर्शनात्” सू० । “तमुत्क्रामन्तं प्राणोऽनुत्क्रामति प्राणम- मूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति” इत्यादिश्रु- तिभ्यः । तस्मात् सतीष्वपि करणानां नियन्त्रीषु देव- तासु न शारीरम्य भोक्तृत्वमपगच्छति, करणपक्षस्यैव हि देवता न भोक्तृत्वपक्षस्येति” भा० । “त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात्” सू० । “मुख्यश्चैकः इतरे चैकादश प्राणा अनुक्रान्ताः, तत्रेदमपरं सन्दि- ह्यते किं मुख्यस्यैव प्राणस्य वृत्तिभेदा इतरे प्राणा आहोस्वित् तत्त्वान्तराणीति । किन्तावत् प्राप्तं मुख्य- स्यैवेतरे वृत्तिभेदा इति । कुतः श्रुतेः । तथाहि श्रुतिर्मुख्यमितरांश्च प्राणान् सन्निधाप्य मुख्यात्मतामित- रषां ख्यापयति “हन्तास्यैव सर्वे रूपमसामेति तत्र तस्यैव सर्वे रूपमभवन्” इति । प्राणैकशब्दत्वाच्चैक- त्वाध्यवसायः, इतरथा ह्यन्याय्यमनेकार्थत्वं प्राणशब्दस्य प्रसज्येत एकत्र वा मुख्यत्वमितरत्र वा लाक्षणिकत्वमा- मद्येत । तस्माद् यथैकस्यैव प्राणस्य प्राणाद्याः पञ्च वृत्तयः एवं वागाद्या अप्येकादशेत्येवं प्राप्ते ब्रूमः । तत्त्वान्तराण्येव प्राणाद्वागादीनीति कुतः व्यपदेशभेदात् । कोऽयं व्यपदेशभेदः, ते प्रकृताः, प्राणाः श्रेष्ठं वर्ज- यित्वाऽवशिष्टा एकादशेन्द्रियाणीव्युच्यन्ते श्वतावेवं अपदेशभेददर्शनात् । “एतस्माज्जायते प्राणो मनः सर्वे- न्द्रियाणि च” इत्यैवं जातीयकेषु श्रुतिप्रदेशैषु पृथक् प्राणो व्यपदिश्यते पृथक् चेन्द्रियाणि । ननु मनसोऽप्येवं वर्जनम् इन्द्रियत्वेन प्राणवत् स्यात् “मनः सर्वेन्द्रियाणि च” इति पृथक् व्यपदेशभेददर्शनात् । सत्यमेतत् स्मृतौ तु एकादशेन्द्रियाणीति मनोऽपीन्द्रियत्वेन श्रोत्रादिवत् संगृह्यते, प्राणस्य त्विन्द्रियत्वं न श्रुतौ स्मृतौ वा प्रसिद्ध- मस्ति । व्यपदेशभेदश्चायं तत्त्वभेदपक्षे उपपद्यते । तत्त्वै- कत्वे तु स एवैकः सन् प्राण इन्द्रियव्यपदेशं लभते न लभते च इति विप्रतिषिद्धं, तस्मात्तत्त्वान्तरभूता मुख्यादितरे । कुतश्च तत्त्वान्तरमूता मुख्यादितरे” भा० । “भेदश्रुतेः” सू० । “भेदेन च वागादिभ्यः प्राणः सर्वत्र श्रूयते “ते ह वाचमूचुः” इत्युपक्रम्य वागादीनसुरपाप्मविध्व- स्तानुपन्यस्योपसंहृत्य वागादिप्रकरणम्, “अथ हेममासन्यं प्राणमूचुः” इत्यसुरविध्वंसिभ्यो मुख्यस्य प्राणस्य पृथ- गुपक्रमात्, तथा “मनो वाचं प्राणं तान्यात्मनेऽकुरत” इत्येवमाद्या अपि भेदश्रुतय उदाहर्त्तव्याः । तस्मादपि तत्त्वान्तरभूता मुख्यादितरे । कुतश्च तत्त्वान्तरभूता मुख्यादितरे” भा० । “वैलक्षण्याच्च” सू० । “वैलक्षण्यञ्च भवति मुख्यप्राणस्येतरेषाञ्च सुप्तेषु वागादिषु मुख्य एको जा- गर्त्ति “स एव चैको मृत्युनाऽनाप्तः । आप्तास्त्वितरे” तस्यैव प्राणस्यावस्थित्युत्क्रान्तिभ्यां देहधारणपातनहे तुत्व नेन्द्रियाणां विषयालोचनहेतुत्वञ्चेन्द्रियाणाम् । न प्राणस्येत्येवंजातीयको भूयान् लक्षणभेदः प्राणेन्द्रिया- णाम् । तस्मादप्येषां तत्त्वान्तरभावसिद्धिः । यदुक्तं “तत्र तस्यैव सर्वे रूपमभवन्” इतिश्रुतेः प्राणएवेन्द्रियाणीति तदयुक्तम् तत्रापि पौर्वपर्य्यालोचनाद्भेदप्रतीतेः । तथा हि “वदिष्याम्येवाहमिति वाग्दध्रे” इति वागादीनी- न्द्रियाण्यनुक्रम्य “तानि मृत्युः श्रमो भूत्वोपयेमे तस्मा- च्छ्राम्यत्येव वाक्” इति च श्रमरूपेण मृत्युना ग्रस्तत्वं वागादीनामभिधाय “अथेममेव नाप्नोत् योऽयं मध्यमः प्राणः” इति पृथक्प्राणं मृत्युनानभिभूतमनुक्रामति । “अयं वैनः श्रेष्ठः” इति च श्रेष्ठतामस्यावधारयति । तस्मात्तदविरोधेन वागादिषु परिस्पन्दलाभस्य प्राणायत्तत्वं तद्रूपभ्रवनं वागादीनामिति मन्तव्यं न तु तादात्म्यम् । अत एव प्राणशब्दस्येन्द्रियेषु, लाक्षणिकत्वसिद्धिः । तथा च श्रुतिः “तत्र तस्यैव सर्वे रूपमभवन तस्मादेते एते नाख्यायन्ते प्राणाः” इति मुख्यप्राणविषयस्यैव प्राण- शब्दस्य इन्द्रियेष् लाक्षणिकीं वृत्तिं दर्शयति । तस्मा- त्तत्त्वान्तराणि प्राणाद्वागादीन्द्रियाणीति” शाङ्करभा० । अतएव वेदान्तसारादौ आकाशादिपञ्चतन्मात्राणां सम- स्तानां रजोऽंशेभ्यः पञ्चवृत्तिकप्राणस्योत्पत्तिमङ्गीचकार तेनापि इन्द्रियेभ्यस्तस्य पृथक्त्वं गम्यते । १५ देहस्थे दशवृत्तिके वायुभेदे प्राणकर्मन्शब्दे दृश्यम् । १६ धातुः पुत्रभेदे पु० “भार्य्ये धातृविधात्रोस्ते तयोर्जातौ सुता बुभौ । प्राणश्चैव मृकण्डुश्च” मार्क० ५२ अ० । वैवस्वतमन्वन्तरे १७ सप्तर्षिभेदे पु० हरिवं० ३ अ० । धराख्यवसौः १८ पुत्रभेदे पु० हरिवं० ६ अ० । १९ विष्णौ पु० “ईशानः प्राणदः प्राणः” विष्णुस० । ‘प्राणस्य प्राणः’ इति श्रुतेस्तस्य तथात्वम् । प्राणयति प्राणः “अच्युतः प्राचितः प्राणः” विष्णुस० । “सूतात्मना प्राणयतिचेष्टयति प्रजाः प्राणः” भा० व्यु- त्पत्तिद्वययोगात् नामद्वयम् । प्राणस्य जलेनैवोपचयस्य करणात् जलमयत्वम् यथोक्तं छा० उ० “आपः पीतास्त्रेधा बिधीयन्ते तासां यःस्थ- विष्ठो धातुस्तन्मूत्रं भवति यो मध्यमस्तल्लोहितं योऽ- णिष्ठः सः प्राणः” इत्युक्त्वा “अन्नमयं हि सौम्य! मन आपोमयः प्राणस्तेजोमयी वाक्” इति च संक्षि- म्योक्त्वा तत्समर्थितं यथा “यथा दध्नः सौम्य! मथ्यमानस्य योऽणि मा ऊर्द्ध्वः समुदीषति तत्सर्पिर्भवति” इति- दृष्टान्तीकृत्य “एवमेव खलु अपां सौम्य! पीयमानानां योऽणिमा स ऊर्द्ध्वः समुदीषति स प्राणो भवतीति” छा० उ० । “यथायं दृष्टान्तः एवमेव खलु सौम्यान्नादेरसस्य भुज्यमानस्यौदर्य्येणाग्निना वायुसहितेन खजेनेव मथ्य- मानस्य योऽणिमा स ऊर्द्ध्वः समुदीषति तन्मनो भवति मनोऽवयवैः सह सम्भूय उपत्तिनोति तद्वत् तथाऽपा सौम्य! पीयमानानां योऽणिमा स प्राण इत्यादि” भाष्यम् । २० मूलाधारस्थे वायौ च “मूलाधारोद्गतः प्राणः” शा० ति० ।


शब्दकल्पद्रुमः

प्राणः || पुं, (प्राणिति जीवति बहुकालमिति । प्र + अन + अच् । प्राणित्यनेनेति करणे घञ् वा ।)
ब्रह्मा । इति त्रिकाण्डशेषः ॥ हृन्मा- रुतः । (यदुक्तम् । “हृदिप्राणो गुदेऽपानः समानो नाभिसंस्थितः ॥”)
वोलः । काव्यजीवः । अनिलः । बलम् । (यथा, हरिवंशे । ८६ । ३६ । “बाहुप्राणेन शूराणां समाजोत्सवसन्निधौ ॥”)
पूरिते, त्रि । इति मेदिनी ॥ सूक्ष्मशरीरसम- ष्ट्युपहितचैतन्यम् ॥ प्राग्गमनवान् नासाग्रस्थान वर्त्ती वायुः । इति वेदान्तसारः ॥ तस्य कर्म्मबहिर्गमनम् । इति श्रीधरस्वामी ॥ तस्य रूपं स्थानानि च यथा, —
“इन्द्रनीलप्रतीकाशं प्राणरूपं प्रकीर्त्तितम् । आस्यनासिकयोर्म्मध्ये हृन्मध्ये नाभिमध्यगे ॥ प्राणालय इति प्राहुः पादाङ्गुष्ठेऽपि केचन ॥” इति योगार्णवः ॥ (यथा, महाभारते । १२ । ३२८ । ३५ । “प्राणिनां सर्व्वतो वायुश्चेष्टां वर्त्तयते पृथक् । प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते ॥”)
पञ्चप्राणविवरणं बहुवचनान्तप्राणशब्दे द्रष्ट व्यम् ॥ धातुः पुत्त्रः । यथा, —
“आयतिर्नियतिश्चैव मेरोः कन्ये महात्मनः । भार्य्ये धातृविधात्रोस्ते तयोर्जातौ सुतावुभौ ॥ प्राणश्चैव मृकण्डुश्च पिता मम महायशाः ॥” इति मार्कण्डेये रुद्रसर्गाध्यायः ॥ (धरपुत्त्रविशेषः । यथा, मत्स्यपुराणे । ५ । २३-२४ । “द्रविणो हव्यवाहश्च नरपुत्त्रावुभौ स्मृतौ । कल्यानिन्यां ततः प्राणो रमणः शिशिरोऽपि च ॥ मनोहरा धरात् पुत्त्रानवापाथ हरेः सुता ॥”)



Correction: