वाचस्पत्यम्
प्राणथ || पु० प्र + अन—अथ । १ प्राणशब्दार्थे २ बलवति च उज्ज्वल० ।
शब्दकल्पद्रुमः
प्राणथः || पुं, (प्राणित्यनेनेति । प्र + अन प्राणने + “शीङ्शपिरुगमीति ।” उणा० ३ । ११३ । इति अथः ।)
वायुः । (प्राणितीति । कर्त्तरि अथः ।)
बलवान् । इत्युणादिकोषः ॥ प्रजा- पतिः । तीर्थम् । इति संक्षिप्तसारोणादिवृत्तिः ॥