वाचस्पत्यम्
प्राणद || न० प्राणं प्राणनं बलं वा ददाति पुष्णाति द्यति वा दा दो—वा—क । १ जले तस्य यथा प्राणोपकारकत्वं तथा प्राणशब्दे छा० उ० वाक्ये दर्शितम् । २ रक्ते च हेमच० । ३ जीवकवृक्षे पु० राजनि० ४ हरीतक्याम् ५ ऋद्धिवृक्षे च स्त्री राजनि० । ६ प्राणदातृमात्रे त्रि० “किमाश्चर्य्यं क्षारदेशे प्राणदा यमदूतिका” तद्भटः । ७ विष्णौ पु० तस्य प्रलये सर्वप्राणच्छेदकत्वात्तद्दातृत्वमिति नामद्वयम् प्राण- शब्दे उदा० दृश्यम् ।
शब्दकल्पद्रुमः
प्राणदं || क्ली (प्राणं प्राणनं बलं वा ददातीति । प्राण + दा + “आतोऽनुपेति ।” ३ । २ । ३ । इति कः ।)
जलम् । रक्तम् । इति हेमचन्द्रः । ४ । १३६ ॥ (प्राणदातरि, त्रि । यथा, कथा- सरित्सागरे । २८ । ९ । “अर्थप्रदानमेवाहुः संसारे सुमहत् तपः । अर्थदः प्राणदः प्रोक्तः प्राणा ह्यर्थेषु कीलिताः ॥”)
शब्दकल्पद्रुमः
प्राणदः || पुं, (प्राणं ददातीति । दा + कः ।)
जीवकवृक्षः । इति राजनिर्घण्टः ॥