संस्कृत-शब्दकोशः

प्रातिपेय प्रातिभाव्य

प्रातिभ

वाचस्पत्यम्

प्रातिभ ||‍ त्रि० प्रनिभाऽस्त्यस्य प्राज्ञा० अण् । १ प्रतिभान्विते योगिनां योगविघ्नकारके २ उपसर्गभेदे मार्कण्डेयपु० ४० अ० यथा “प्रातिभः श्रावणो दैवो भ्रमावर्त्तौ तथापरौ । पञ्चैते योगिनां योगविघ्नाय कटुकोदयाः । वेदार्थाः काव्यशास्त्रार्थाः विद्याः शिल्पान्यशेषतः । प्रतिभान्ति यदस्येति प्रातिभः १ स तु योगिनः । शब्दार्थानखिलान् बेत्ति शब्दं गृह्णाति चैव यत् । योजनानां सहस्रेभ्यः श्रावणः २ सोऽभिधीयते । समन्ताद्वीक्षते चासौ स यदा देवतोपमः । उपसर्गन्तमप्याहुर्दैव ३ मुन्मवत्तवद् बुधाः । भ्राम्यते यन्निरालम्बं मनो दोषेण योगिनः । समस्ता- चारविभ्रंशाद् भ्रमः ४ स परिकीर्त्तितः । आवर्त्त इव तोयस्य ज्ञानावर्त्तो यदाकुलः । नाशयेच्चित्तमावर्त्त ५ उप- सर्गः स उच्यते । एतैर्नाशितयोगास्तु सकला देवयो- नयः । उपसर्गैर्महाघोरैरावर्त्तन्ते पुनःपुनः” ।



Correction: