संस्कृत-शब्दकोशः

प्रातिभ प्रातिभासिक

प्रातिभाव्य

वाचस्पत्यम्

प्रातिभाव्य ||‍ न० प्रतिभुयो भावः ष्यञ् द्विपदवृद्धिः । (जा- मिनि) १ प्रतिभूभावे प्रतिभूत्वेन देये २ धने च मनुः ८ । १५ । ५९ दर्शनप्रतिभूशब्दे ३४७५ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

प्रातिभाव्यं || क्ली (प्रतिभू + ष्यञ् । द्विपदवृद्धिः ।)
प्रतिभुवो भावः । जामिनी इति भाषा । यथा, “साक्षित्वं प्रातिभाव्यञ्च दानं ग्रहणमेव च । विभक्ता भ्रातरः कुर्य्युर्नाविभक्ता परस्परम् ॥” इति दायभागः ॥



Correction: