वाचस्पत्यम्
प्रातिभासिक || त्रि० प्रतिभासादागतः ठक् । प्रतिभासाधीन सत्त्ववति मिथ्यारजतादौ वेदान्तमते हि सत्त्वं त्रिविधं पारमार्थिकं व्यवहारिकं प्रातिभासिकं च तत्र ब्रह्मणः सत्त्वं पारमार्थिकं त्रिकालाबाध्यत्वात्, घटादीनां सत्त्वं व्यवहारिकं व्यवहारकालेऽवाध्यत्वात्, शुक्तौ रजतादेः सत्त्वं प्रातिभासिकम् अधिष्ठानज्ञानबाध्यत्वात् प्रतिभास- कालमात्रसत्त्वाच्चेति वेदान्तपरिभाषायां स्थितम् ।