संस्कृत-शब्दकोशः

प्राधानिक प्राध्व

प्राधान्य

वाचस्पत्यम्

प्राधान्य ||‍ न० प्रधानस्य भावः ष्यञ् । श्रेष्ठत्वे । भावे त्वप्रधा- नत्व न० तल् प्रधानता स्त्री तत्रार्थे । “अप्राधान्यं विधे- र्यत्र प्रतिषेधे प्रधानता” शाब्दिककारिका ।


शब्दकल्पद्रुमः

प्राधान्यं || क्ली प्रधानस्य भावः । (प्रधान + भावे ष्यञ् ।)
प्रधानत्वम् । यथा, धर्म्मदीपिकायाम् । “वेदार्थोपनिबन्धृत्वात् प्राधान्यं हि मनोः स्मृतम् ॥”



Correction: