वाचस्पत्यम्
प्रान्त || पु० प्रकृष्टोऽन्तः । १ शेषसीमायाम् हेमच० । २ ऋपिभेदे पु० । ततः गोत्रापत्ये कृण्वा० फञ् । प्रान्तायन तदपत्ये पुंस्त्री० ।
शब्दकल्पद्रुमः
प्रान्तः || पुं, (प्रकृष्टोऽन्तः ।)
अन्तभागः । शेष- सीमा । यथा, कुमारे । ३ । ४३ । “प्रान्तेषु संसक्तनमेरुशाखं ध्यानास्पदं भूतपतेर्विवेश ॥”