संस्कृत-शब्दकोशः

प्रान्तदुर्ग प्रान्तशून्य

प्रान्तर

वाचस्पत्यम्

प्रान्तर ||‍ न० प्रकृष्टमन्तरं व्यवधानं यत्र । १ दूरगम्ये पथि । २ वृक्षादिछायाशून्ये पथि ३ वने ४ कोटरे च मेदि० ।


शब्दकल्पद्रुमः

प्रान्तरं || क्ली (प्रकृष्टमन्तरमवकाशो व्यवधानं वा यत्र ।)
दूरशून्योऽध्वा । इत्यमरः । २ । १ । १७ ॥ छायातरुजलादिरहिते पथि प्रान्तरं दूरं शून्यो दूरशून्यः दूरश्चासौ शून्यश्चेति वा दूरशून्यो जलादिवर्जितत्वात् ईदृक् योऽध्वा स प्रान्तर- मित्यन्वयः । प्रकृष्टमन्तरं व्यवधानमवकाशो वा अत्रेति प्रान्तरम् । इति भरतः ॥ (यथा, महा- निर्व्वाणतन्त्रे । १ । ६४ । “ह्रदे गर्त्ते प्रान्तरे च प्रासादात् पर्व्वतादपि । पतिष्यन्ति मरिष्यन्ति मनुजा मदविह्वलाः ॥”)
विपिनम् । कोटरम् । इति मेदिनी ॥



Correction: