संस्कृत-शब्दकोशः

प्रामधि प्रामाण्य

प्रामाणिक

वाचस्पत्यम्

प्रामाणिक ||‍ त्रि० प्रमाणेन निर्वृत्तः सिद्धः ठञ् । १ प्रत्यक्षादि- प्रसाणसिद्धे २ शास्त्रसिद्धे च स्त्रियां ङीप् । ३ हैतुके ४ म- र्य्यादाभिज्ञे ५ शास्त्रज्ञे ६ परिच्छे दके ७ प्रमाणकर्त्तरि च ।


शब्दकल्पद्रुमः

प्रामाणिकः || त्रि (प्रमाणादागतः । प्रमाण + ठक् ।)
हैतुकः । मर्य्यादार्हः । शास्त्रज्ञः । परि- च्छेदकः । प्रमाणकर्त्ता । इति प्रमाणशब्दात् कर्त्तरि ष्णिकप्रत्ययः ॥



Correction: