वाचस्पत्यम्
प्रायणीय || त्रि० प्रायणं आरम्भदिनं तत्र विहितः छ । १ प्रारम्भदिने २ गवामयनप्रथमाहादौ च विहिते अतिरात्रे यागभेदे च “प्रायणीयेऽद्य सुत्यामेके” कात्या० श्रौ० १२ । ६ । २६ “प्रायणीयोऽतिरात्र एवाह साध्यः” देव- नाथः । ताण्ड्य० ब्रा० ४ । २ । १ । २ भाष्ये द्वितीयाह- स्यैव प्रायणीयसंज्ञा तन्निरुक्तिश्च दर्शिता यथा “प्रायणीयमेतदहर्भवति” मू० । “एतद्वक्ष्यमाणमहः प्रा- यणीयं प्रकर्षेण यान्ति गच्छन्ति स्वर्गमनेनोत व्युत्- पत्तेः । एतत्संज्ञं गवामयनस्य द्वितीयमहरनुष्ठेयं भ- वति । यद्यपि श्रुत्यन्तरे प्रथमविहितस्थातिरात्रस्थैव प्रायणीय इति संज्ञा प्रसिद्धा तथापि प्रथमोत्तमयोरति- रात्रयोः सर्वत्र साधारणत्वादस्यैवाह्नो गवामयने असा- धारणं प्राथम्यमिति कृत्वा एतदादिकं गवायनस्वरूप- मित्यस्मिन् द्वितीयेऽहनि प्रायणीयशब्दोऽत्र प्रयुज्यते । उक्तमहन्नौमनिर्वचनद्वरा प्रशंसति” भा० “प्रायणीयेन वा अह्ना देवाः स्वर्गं लोकं प्रायन् यत् प्रायंस्तत् प्रायणीयस्य प्रायणीयत्वम्” मू० “पुरा देवाः प्रायणीयेन प्रायणीया- ख्येन खल्वह्ना स्वर्गं लोकं प्रायन् प्राप्ताः यद्यस्मात् प्रायन् स्वर्गं प्रागमन् तस्मादस्याह्नः प्रायणीयत्वं प्राय- णीयसाधारणत्वात् प्रायणीयमिति नाम सम्पन्नम्” भा० । तदहः कर्त्तव्यत्वादतिरात्रस्य प्रायणीयसंज्ञेति बोध्यम् ।