वाचस्पत्यम्
प्रायश्चित्त || न० पापक्षयमात्रसाधनत्वेन विधिवोधिते कर्म- भेदे यघोक्तं प्रा० वि० तत्राङ्गिराः “पायो नाम तपः पोक्तं चिर्त्तः” निश्चय उच्यते । तपो निश्चयसंयुक्तं प्रायश्चित्तमिति स्मृतम् । निश्चयसंयुक्तं पापक्षयसाधनत्वेन निश्चितमित्यर्थः । तथा हारीतः “प्रयतत्वाद्वापचितमशुभं नाशयतीति प्राय- श्चित्तम्” । एतेन पापक्षयमात्रसाधनं कर्म प्रायश्चित्त- मिति तल्लक्षणम् । मात्रशब्दात् तुलापुरुषाश्वमेधादिव्या- वृत्तिः । तत्र पापविशेषस्यैव कामाकामकृतस्य शक्तिविशेषस्य ततो नाशः मतभेदेन अव्यवहार्य्यशब्दे ४७० । ७१ दर्शितः । “प्रायश्चित्तैरपेत्येनो यदज्ञानं कृतं भवेत् । कामतो व्य- वहार्य्यस्तु वचनादिह जायते” याज्ञ० वचनस्य प्रा० वि० व्याख्यानं मतभेदेन दर्शितं यथा “कामत इति अज्ञानकृतपापप्रायश्चित्तेन कामकृतपापाप- गमो न भवति । किन्तु व्यवहार्य्य तामात्रम् । ननु सति पापे कथं व्यवहर्य्यतामात्रम् अत्राह वचनादिति । अय- मभिप्रायः अर्द्धप्रायश्चित्तानुष्ठानेनार्द्धपापक्षयात् सम्भा- षणस्पर्शनदर्शनादिलघुव्यवहारो न दुष्टः न तु भोजन- परिणयनव्यवहारोऽपि वचनादेव यथा कुनखित्वादि- सूचितमहापापशेषसद्भावे व्यवहार्य्यतेति । अथ वा अकारप्रश्लेषादुयथोक्तेन प्रायश्चित्तेन कामतोऽषि पापक्षयो भवत्येव किन्त्वव्यवहार्य्यः पापाभावेऽपि वचनात् । अत एव मनुः “बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः । शरणागतहन्तृंश्च स्त्रीहन्तृंश्च न संवसेत्” । याज्ञवल्क्यः “शरणागतबालस्त्रीहिंसकान् संवसेन्न तु । चीर्णव्रतानपि सदा कृतघ्नसहितानिमान् । कृतनिर्णेजनांश्चैव न जुगु- पसेत कर्हिचित्” इति मनुवचनं त्वज्ञानकृतमहापापे बो- द्धव्यमिति । भवदेवस्तु सर्वत्र “मृतः शुद्धिमवाप्नुयादिति” दर्शनादत्राव्यवहार्य्यतावचन निन्दार्थनित्याह । जिक- नस्तु पापकर्मणा हि द्वयं जन्यते शरीरततमप्रायत्यमात्म- मतञ्च पापं तच्च स्पर्शादौ वैटिककर्मणि चानर्हत्वलक्षणं तेनात्र कामनाकृते केवलशरीरदोषः प्रायश्चित्तेनापनीयते जन्मान्तरकृतदुरितस्येवात्मनः शरीरान्तरस्य व्यवहारा- धिकारित्वम् आत्मगतञ्च पापं भोगादेव क्षीयते” तन्न काम- कारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् इति मनुवचनादुक्त- श्रुतिविरोधाच्च” । मिताक्षरामतन्तु अवहार्य्य शब्दे दर्शितम् । प्रायत्तिश्चस्य काम्यत्वं नैमित्तिकत्वं नित्यत्वञ्च यथाह जावालः “काम्यानां सफलार्थञ्च दोषधातार्थमेव च । अतः काम्यं नैमित्तिकञ्च प्रायश्चित्तमिति स्थितिः । च- रितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये । निन्द्यैश्च ल- क्षणैर्युक्ता जाथन्तेऽनिष्क्रतैनसः” । ज्ञानाज्ञानन्नत- पापयोः प्रायश्चित्तभेदो यथा अङ्गिराः “अकामतः कृते पापे प्रायश्चित्तं, न कामतः । स्यात्त्वकामकृते यत्तु द्वि- गुणं बुद्धिपूर्वके” । प्रायश्चित्ताकथने दोषो यथा “आर्त्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः । जा- नन्तो न प्रयच्छन्ति तेऽपि तद्दोषभागिनः । अनर्च्चितै- रनाहुतैरपृष्टैश्चैव संसदि । प्रायश्चित्तं न वक्तव्यं जा- नद्भिरपि जल्पतः । न्यायतो मार्गमाणस्य क्षत्रियादेः प्रणामिनः । अन्तरा ब्राह्मणं कृत्वा व्रतमेतत् समादिशेत्” हारोतः “यथावयो यथाकालं यथाप्राणञ्च ब्राह्मणे । प्रायश्चित्तं प्रदातव्यं ब्राह्मणैर्धर्मपाठकैः । तस्मात् कृच्छ्रम- थाप्यर्द्धं पादं वापि (पादमेव नातो न्थूनम्) विधानतः । ज्ञात्वा बलाबलं कालं प्रायश्चित्तं प्रकल्पयेत् । अशक्ता- वनुग्रहमाह पराशरः । “दुर्वलेऽनुग्रहः कार्य्यस्तथा वै शिशुवृद्धयोः । अतोऽन्यथा भवेद्दोषस्तस्यान्नानुग्रही भवेत्” । स्नेहादिनानुग्रहे दोषो यथा “स्नेहाद्वा यदि वा लो- भात् मोहादज्ञानतोऽपि वा । कुर्वन्त्यनुग्रहं ये तु तत् पापं तेषु गच्छति । शास्त्रीयप्रायश्चित्तमुदाहृत्य पश्चा- दनुग्रहः कार्य्य इत्याहाङ्गिराः “कृत्वा पूर्वमुदाहारं यथोक्तं धर्मवक्तृभिः । पश्चात् कार्य्यानुसारेण शक्त्या कुर्वन्त्यनुग्रहम्” । वृद्धत्वादिभेदात् प्रायश्चित्तं यथा “अ- शीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः । प्रायश्चित्तार्द्ध- मर्हन्ति स्त्रियो रोगिण एव च” । पापनिष्क्रमणोपाया- नाह मनुः “ख्यापनेनानुतापेन तपसाऽध्ययनेन च । पापकृन्मुच्यते पापात्तथा दानेन चापदि” । आप- दीत्यनेन अध्ययनतपसोर्दानमनुकल्प इत्युक्तम् । एत- द्धिंसाव्यतिरिक्तविषयम् । हिंसायान्तु दानं मुख्यम् । यथा भविष्ये “हिंसात्मकानां सर्वेषां कीर्त्तितानां मनी- षिभिः । प्रायश्चित्तकदम्बानां दानं प्रथममुच्यते” । तथा मनुः “दानेन ब्रधनिर्णेकं सर्पादीनामशक्नुवन् । एकैकश- श्चरेत् कृच्छ्रं द्विजः पापापनुत्तये” । समान्यप्रायश्चित्ता- न्याह संवर्त्तः “हिरण्यदानं गोदानं भूमिदानं तथैव च । नाशयन्त्याशु पापानि भहापातकजान्यपि” । यमः “शोषणेन शरीरस्य तपसाऽध्ययनेन च । पापकृन्मुच्यते धावात् दानेन च दमनेच” । मनुः “कृत्वा पापं हि सन्तप्य तस्मात् पापात् प्रमुच्यते । नैतत् कुर्य्यां पुनरिति निवृत्त्या पूयते नरः” । विष्णुपुराणम् “प्रायश्चित्तान्यशे- षाणां कृष्णानुस्मरणं परम्” । यमः “गवाह्निकं देवपूजा वैदभ्यासः सरित्प्लवः । नाशयन्माशु० पापानि महा- पातकजान्यपि” । गोतमः “हिरण्यं गौर्वासोऽश्वो भूमि- स्तिला घृतमन्नमिति देयानि” । एनान्येवानादेशे विक- ल्पेन क्रियेरन् एनसि लघुनि लघूनि गुरुणि गुरूणि” । विष्णुपुराणम् “एवं विषयभेदाद्वैव्यवस्थाप्यानि पुत्रक! । प्रायश्चित्तानि सर्वाणि गुरूणि च लथूनि च । अ- न्यथा हि महावाहो! लघूनामुपदेशतः । गुरूणा- मुपदेशो हि निषप्रयोजनतां व्रजेत्” । महाभारते “यद्यकार्य्यशतं कृत्वा कृतं गङ्गाभिषेचनम् । सर्वं दहति गङ्गाम्भस्तूलराशिमिवानलः” । शुद्धिकारणानि व्रतान्याह विश्वामित्रः “कृच्छ्रचान्द्रायणादीनि शुद्ध्यभ्यु- दयकारणम् । प्रकाशे वा रहस्ये वा संशयेऽनुक्तके स्फुटे । प्राजापत्यं सान्तपनं शिशुकृच्छ्रं पराककः । अतिकृच्छ्रः पर्णकृच्छ्रः सौम्यकृच्छोऽतिकृच्छ्रकः । भहासान्तपनः शुद्ध्यै तप्तकृच्छ्रस्तु पावनः । जलोपवास कृच्छ्रश्च ब्रह्मकूर्चस्तु शोधकः । एते समस्ता व्यस्ता वा प्रत्येकमेकशोऽपि वा । पातकादिषु सर्वेषु पापकेषु प्रय- त्नतः । कार्य्याश्चान्द्रायणैर्युक्ताः केवला वा विशुद्धये । शिशुचान्द्रायणं प्रोक्तं यतिचान्द्रायणं तथा । यवमध्यं तथा प्रोक्तं तथा पिपीलिकाकृति । उपवासस्त्रिरात्रं वा मासं पक्ष तदर्द्धकम् । षडहद्वादशाहादि कार्य्यं शुद्धिफलार्थिना । उपपातकयुक्तानामनादिष्टेषु चैव हि । प्रकाशे च रहस्ये च अभिसन्ध्याद्यपेक्षया । जाति- शक्तिगुणान् दृष्ट्वा सकृदुबुद्धिकृतं तथा । अनुबन्धादिकं दृष्ट्वा सर्वं कार्य्यं यथाक्रमम्” । प्रकाशकृते पापे व्रतानि मुख्यानि रहस्यकृते जपादीनि यथा प्राजापत्या- दीन्यभिधाय मनुः “एतैर्द्विजातयः शोध्या व्रतैरावि- ष्कृतैनसः । अनाविष्कृतपापांस्तु मन्त्रैर्होमैस्तु शोध- येत्” । देवलः “प्रकाश उक्तं यत्किञ्चित् विंशभागो रहस्यके । त्रिंशभागः षष्टिभागः कल्प्यो जात्याद्य- पेक्षया” प्रा० वि० । क्वचिद्विषयभेदे प्रायश्चित्ताभावः यथोक्तं प्रा० त० अथ गोवधाद्यपवादः । पराशरः “धूर्य्येषु वहमानेषु दण्डेनाभिहतस्य च । काष्ठेन लेष्टुना वापि पाषाणेन तु ताडितः । मूर्च्छितः पतितश्चैव मृतो वा सद्य एव च । एवं गतानां धूर्य्याणां प्रवक्ष्यामि यथाविधि । उ- त्थितस्तु पदं गच्छेत् पञ्च सप्त दशाथ वा । ग्रासं वा यदि गृह्णाति तोयं वा पिनति स्वयम् । पूर्वव्याधिविनष्टानां प्रायश्चित्तं न विद्यते” यदि व्याधिप्रयुक्तानां वृषाणां हलयोजनमात्रेण स्वल्पतरदण्डाघातेन वा मूर्च्छया पतनं भवति अनन्तरं गमनं ग्रासादौ कृते मरणं भवति तदा गमनग्रासग्रहणतोयपानैस्तदानीन्तनमरणे हेत्वभावं निश्चित्य पूर्वव्याधिविनष्टत्वं ज्ञायते । यदि तु पूर्व- व्याधिरहित एव प्रहारजनितव्याधिना ग्रासादि कृत्वापि म्रियते तदा प्रायश्चित्तमस्त्येव । संवर्त्तः “यन्त्रणे गो- चिकित्सायां मूढगर्भविमोचने । यत्ने कृते विपत्तिः स्यात् प्रायश्चित्तं न विद्यते । औषधं स्नेहमाहारान् दद्याद् गोब्राह्मणेषु च । प्राणिनां प्राणवृत्त्यर्थं प्राय- श्चित्तं न विद्यते । दाहच्छेदशिराभेदप्रयत्नैरुपकुवताम् । द्विजानां गोहितार्थं वा प्रायश्चित्तं न विद्यते” मूढगर्भः अन्तर्मृतगर्भः मुह वैचित्त्ये इत्थनेन तथार्थत्वात् । याज्ञवल्क्यः “क्रियमाणोपकारे तु मृते विप्रे न पात- कम् । विपाके गोवृषाणाञ्च भेषजाग्निक्रियासु च” । विशेषमाहाङ्गिराः “शृङ्गभङ्गेऽस्थिभङ्गे च चर्मनिर्मो- चनेऽपि वा । दशरात्रं चरेत् कृच्छ्रं सुस्था सा यदि गौर्भवेत्” । द्विजानां गवाञ्च हितार्थमित्यर्थः । अत्र प्राणरक्षार्थमाहारादिदानैर्मरणे दोषाभावस्य वाचनिक- त्वात् गललग्नान्न मरणे नात्मघातादि । एवं “गोपालको गवां गोष्ठे धूमं यस्तु न कारयेत् । मक्षिकालीननरके मक्षिकाभिः स भक्ष्यते” इति देवीपुराणानुसारादग्निं प्रज्वाल्य तत्रैव स्थितस्य दैवात्तदग्निना मरणे दोषा- भावः । तत्रास्थितस्य तु अपालननिमित्तगोबधजन्य- दोषः । मिताक्षरायां पराशरः “कूपे स्वाते च धर्मार्थे गृहदाहे च ये मृताः । ग्रामदाहे तथा घोरे प्रायश्चित्तं न विद्यते” इदन्तु बन्धनरहितस्य पशोः कदा- चित् दाहादिना मृतविषयम् । इतरत्रापस्तम्बोक्तं “कान्तारेष्वथ वा दुर्गे गृहदाहावटादिषु । यदि तत्र विपत्तिः स्यात् पाद एको विधीयते” । इति ज्ञेयम् । एत- दुवचनं यमस्येति भवदेवभट्टः । चिकित्सायां पापाभावो यथावदुपचारे बोध्यः । न पुनः सन्निपाताभिभूतस्योदक- पानादिना । णतएव मनुः “चिकित्सायाञ्च सर्वेषां मिथ्याप्रचरतां दमः” । काश्यपोऽप्यत्र प्रायश्चित्तमाह “दोग्ध्री दमनातिदोहान्नासापाशदामघण्टाभरणयोज- नात् तेलपानौषधविनियोगाद्व्यापन्नानां प्रायश्चित्तं ब्राह्मणेभ्यो विनिवेद्य सशिखवपनं कृत्वा प्राजापत्यकृच्छ्र- माचरेत् । चोर्णान्ते गां दक्षिणां ब्राह्मणाय दद्यात् धेनुं तिलधेनुं वेति” । प्रायश्चित्तपूर्वाहकृत्यम् । शङ्खलिखितौ “वाप्य केशन- खान् पूर्वं घृतं प्राश्य बहिनिशि । प्रत्येकं नियतं का- लमात्मनो ब्रतमादिशेत् । प्रायश्चित्तमुपासीनो वाग्- यतस्त्रिसवनं स्पृशेत्” । केशधारणेच्छायां द्विगुणव्र- तांदिकमाह हारीतः “राजा वा राजपुत्रो वा ब्रा- ह्मणो वा बहुश्रुतः । केशानां वपनं कृत्वा प्राय- श्चित्तं समाचरेत् । केशानां धारणार्थं तु द्विगुणं व्रतमाचरेत् । द्विगुणे तु व्रते चीर्णे द्विगुणा दक्षिणा भवेत् । विद्वद्विप्रनृपस्त्रीणां नेष्यते केशवापनम् । ऋते महापातकिनो गोहन्तुश्चापकीर्णिनः” । सधवा- स्त्रीणां विशेषमाह भवदेवभट्टधृतं वचनम । “वपनं नैव नारीणां नानुव्रज्या जप्राद्रिकम् । न गोष्ठे शयनं तासां न च दध्याद्गवाजिनम् । सर्वान् केशान् समु- द्धृत्य छेदयेदङ्गुलिद्वयम् । सर्वत्रैवं हि नारीणां शिरसो मुण्डनं स्मृतम्” । पापभेदेषु प्रायश्चित्तभेदाः प्रायश्चित्तवि- वेविवेकादौ दृश्याः विस्तरभयान्नोक्ताः । तस्येदं छ । प्रायश्चित्तीय तदाचरणे न० ।
शब्दकल्पद्रुमः
प्रायश्चित्तं || क्ली (प्रायस्य पापस्य चित्तं विशोधनं यस्मात् । यदुक्तं स्मृतौ । “प्रायः पापं समुद्दिष्टं चित्तं तस्य विशोधनम् ॥” यद्वा, प्रायस्य तपसः चित्तम् निश्चय इति । “पारस्करप्रभृतीनि च संज्ञायाम् ।” ६ । १ । १५७ । इत्यत्र । “प्रायस्य चित्तिचित्तयोः ।” इति वार्त्तिकोक्त्या सुट् निपात्यते च । निरु- क्तिस्तु निम्ने द्रष्टव्या ।)
पापक्षयमात्रसाधनं कर्म्म । यथा, हारीतः । प्रयतत्वाद्बोपचित- मशुभं नाशयतीति प्रायश्चित्तम् ॥ * ॥
(“प्राय- श्चित्तमिति । यत्तपःप्रभृतिकं कर्म्म उपचितं सञ्चितमशुभं पापं नाशयतीति कृततत्तत्- कर्म्मभिः कर्त्तुः प्रयतत्वाद्वा शुद्धत्वादेव तत्- प्रायश्चित्तम् । तथाच पुनर्हारीतः । यथा, क्षारोपस्वेदचण्डनिर्णोदनप्रक्षालनादिभिर्वासांसि शुध्यन्ति एवं तपोदानयज्ञैः पापकृतः शुद्धि- मुपयान्ति । शुद्धिं पापक्षयम् । यथा, महा- भारते । ‘अद्भिर्गात्रान् मलमिव तमा ह्यग्निभयाद्यथा । दानेन तपसा चैव सर्व्वपापमपोहति ॥’ तेन पापक्षयमात्रसाधनत्वेन विधिबोधितं कर्म्म प्रायश्चित्तम् । मात्रार्थलाभस्तु प्रयतत्वाद्- वेत्येवकारार्थकवाशब्दात् । तथाच विश्वः । ‘वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये ।’ एवञ्च । ‘अश्वमेधेन शुध्यन्ति महापातकिनस्त्विमे ।’ इति विष्णूक्तस्याश्वमेधस्यापि प्रायश्चित्तत्वम् । पापक्षयस्वर्गोभयसाधकस्य तु तस्यापि न प्राय- श्चित्तत्वम् । प्रायश्चित्तस्य स्वध्वं सादिजनकत्वेऽपि तदंशे विधिबोधितत्वाभावान्नासम्भवः ॥ इति प्रायश्चित्ततत्त्वम् ॥)
तस्य व्युत्पपत्तिर्यथा । अङ्गिराः । “प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपोनिश्चयसंयुक्तं प्रायश्चित्तमिति स्मृतम् ॥” निञ्चयसंयुक्तम्पापक्षयसाधनत्वेन निश्चित- मित्यर्थः ॥ * ॥
पापन्तु वैदिकप्रतिपाद्योऽनर्थः । अनर्थश्चानिष्टसाधनम् । पापकारणमुक्तं याज्ञ- वल्क्येन । यथा, —
“विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥” * ॥
पापविशेषेणावस्थाविशेषमाह मनुः । “शरीरजैः कर्म्मदोषैर्याति स्थावरतां नरः । वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥ इह दुश्चरितैः केचित् केचित् पूर्ब्बकृतैस्तथा । प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्य्ययम् ॥” यमः । “सुरापो ब्रह्महा गोघ्नः सुवर्णस्तेयकृन्नरः । पतितैः संप्रयुक्तश्च कृतघ्नो गुरुतल्पगः । एते पतन्ति सर्व्वेषु नरकेष्वनुपूर्ब्बशः ॥” * ॥
प्रायश्चित्तमाहात्म्यं यथा । अङ्गिराः । “उद्यच्छन् यद्वदादित्यस्तमः सर्व्वं व्यपोहति । तद्बत् कल्याणमातिष्ठन् सर्व्वं पापं व्यपोहति ॥ पापञ्चेत् पुरुषः कृत्वा कल्याणमभिपद्यते । मुच्यते पातकैः सर्व्वैर्महाभ्रैरिव चन्द्रमाः ॥” कल्याणं प्रायश्चित्तम् ॥ * ॥
तस्यावश्यकर्त्तव्यत्व- माह यमः । “तपसोऽन्ते विशुध्यन्ति कर्म्मणां वा परिक्षयात् । तस्मात् कर्त्तव्यमेतैस्तु प्रायश्चित्तं विशुद्धये ॥” कर्म्मणां भोगेन परिक्षयादित्यर्थः ॥ * ॥
प्राय- श्चित्तार्हत्वमाह मनुः । “अकुर्व्वन् विहितं कर्म्म निषिद्धन्तु समाचरन् । प्रसजंश्चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः ॥ * ॥
अज्ञानाद्यदि वा ज्ञानात् कृत्वा कर्म्म विग- र्हितम् । तस्माद्विमुक्तिमन्विच्छन् द्बितीयं न समाचरेत् ॥” प्रायश्चित्तस्य काम्यत्वं नैमित्तिकत्वं नित्यत्वञ्च यथा । जावालः । “काम्यानां सफलार्थञ्च दोषघातार्थमेव च । अतः काम्यं नैमित्तिकञ्च प्रायश्चित्तमिति स्थितिः ॥ चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये । निन्द्यैश्च लक्षणैर्युक्ता जायन्ते निष्कृतैनसः ॥ * ॥
ज्ञानाज्ञानकृतपापयोः प्रायश्चित्तभेदो यथा । अङ्गिराः । “अकामतः कृते पापे प्रायश्चित्तं न कामतः । स्यात्त्वकामकृते यत्तु द्बिदुणं बुद्धिपूर्ब्बके ॥” * ॥
अथ प्रायश्चित्तिनस्पर्षदुपस्थानम् । तत्राङ्गिराः । “कृते निःसंशये पापे न भुञ्जीतानुपस्थितः । भुञ्जानो वर्द्धयेत् पापमसत्यं पर्षदि ब्रुवन् ॥ सचेलं वाग्यतः स्नात्वा क्लिन्नवासाः समाहितः । उपस्थाय ततः शीघ्रमार्त्तिमान् धरणीं गतः । गात्रैश्च शिरसा चैव न च किञ्चिदुदाहरेत् ॥” उपस्थानञ्च ब्राह्मणान् वस्त्रादिना तोषयित्वा कार्य्यम् । महत्सु पापेषु राज्ञोऽप्युपस्थितिः कार्य्येत्याह देवलः । “स्वयं वा ब्राह्मणैः कृच्छ्रमल्पदोषे विधीयते । राज्ञा च ब्राह्मणैश्चैव महत्सु परिचक्षते ॥” * ॥
परिषदमाहाङ्गिराः । “एकविंशतिसंख्याकैर्मीमांसावेदपारगैः । वेदाङ्गकुशलैश्चैव परिषत् संप्रकल्पयेत् ॥ चातुर्विद्यो विकल्पी च अङ्गविद्धर्म्मपाठकः । त्रयश्चाश्रमिणो वृद्धाः पर्षत् स्यात्तु दशावरा ॥” मनुः । “त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्म्मपाठकः । त्रयश्चाश्रमिणः पूर्ब्बे पर्षत् स्यात्तु दशावरा ॥” अङ्गिराः । “एषा तु लघुकार्य्येषु मध्यमेषु तु मध्यमा । महापातकिशोध्येषु शतशो भूय एव वा ॥” प्रदर्शनार्थमिदम् । यावद्भिरेव निरूपणं ताव- द्भिरेव परिषत् । दृष्टार्थत्वादेव तस्याः । तथा च यमः । “एको द्बौ वा त्रयो वापि यद्ब्रूयुर्धर्म्मपाठकाः । स धर्म्म इति विज्ञेयो नेतरेषां सहस्रशः ॥ *” ॥ प्रायश्चित्ताकथने दोषो यथा, —
“आर्त्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः । जानन्तो न प्रयच्छन्ति तेऽपि तद्द्वोषभागिनः ॥ अनर्च्चितैरनाहूतैरपृष्टैश्चैव संसदि । प्रायश्चित्तं न वक्तव्यं जानद्भिरपि जल्पतः ॥ न्यायतो मार्गमाणस्य क्षत्त्रियादेः प्रणामिनः । अन्तरा ब्राह्मणं कृत्वा व्रतमेतत् समादिशेत् ॥” हारीतः । “यथावयो यथाकालं यथाप्राणञ्च ब्राह्मणे । प्रायश्चित्तं प्रदातव्यं ब्राह्मणैर्धर्म्मपाठकैः ॥ तस्मात् कृच्छ्रमथाप्यर्द्धं पादं वापि विधानतः । ज्ञात्वा बलाबलं कालं प्रायश्चित्तं प्रकल्पयेत् ॥” अशक्तावनुग्रहमाह पराशरः । “दुर्ब्बलेऽनुग्रहः कार्य्यस्तथा वै शिशुवृद्धयोः । अतोऽन्यथा भवेद्दोषस्तस्मान्नानुग्रही भवेत् ॥” स्नेहादिनानुग्रहे दोषो यथा, —
“स्नेहाद्वा यदि वा लोभात् मोहादज्ञानतो- ऽपि वा । कुर्व्वन्त्यनुग्रहं ये तु तत् पापं तेषु गच्छति ॥” शास्त्रीयप्रायश्चित्तमुदाहृत्य पश्चादनुग्रहः कार्य्य इत्याहाङ्गिराः । “कृत्वा पूर्ब्बमुदाहारं यथोक्तं धर्म्मवक्तृभिः । पश्चात् कार्य्यानुसारेण शक्त्या कुर्व्वन्त्यनुग्रहम् ॥” वृद्धत्वादिभेदात् प्रायश्चित्तं यथा, —
“अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः । प्रायश्चित्तार्द्धमर्हन्ति स्त्रियो रोगिण एव च ॥” अथ पापनिष्क्रमणादिः । तत्र मनुः । “ख्यापनेनानुतापेन तपसाध्ययनेन च । पापकृन्मुच्यते पापात्तथा दानेन चापदि ॥” आपदीत्यनेन अध्ययनतपसोर्दानमनुकल्प इत्यु- क्तम् । एतद्धिंसाव्यतिरिक्तविषयम् । हिंसा- यान्तु दानं मुख्यम् । यथा, भविष्ये । “हिंसात्मकानां सर्व्वेषां कीर्त्तितानां मनीषिभिः । प्रायश्चित्तकदम्बानां दानं प्रथम उच्यते ॥” तथा मनुः । “दानेन वधनिर्णेकं सर्पादीनामशक्नुवन् । एकैकशश्चरेत् कृच्छ्रं द्बिजः पापापनुत्तये ॥” * ॥
सामान्यप्रायश्चित्तानि यथा, संवर्त्तः । “हिरण्यदानं गोदानं भूमिदानं तथैव च । नाशयन्त्याशु पापानि महापातकजान्यपि ॥” यमः । “शोषणेन शरीरस्य तपसाध्ययनेन च । पापकृन्मुच्यते पापात् दानेन च दमेन च ॥” मनुः । “कृत्वा पापं हि सन्तप्य तस्मात् पापात्प्रमुच्यते । नैतत् कुर्य्यात् पुनरिति निवृत्त्या पूयते नरः ॥” विष्णुपुराणम् । “प्रायश्चित्तान्यशेषाणि तपःकर्म्मात्मकानि वै । यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥” यमः । “गवाह्निका देवपूजा वेदाभ्यासः सरित्प्लवः । नाशयन्त्याशु पापानि महापातकजान्यपि ॥” गीतमः । “हिरण्यं गौर्व्वासोऽश्वो भूमिस्तिला घृतमन्नमिति देयानि । एतान्येवानादेशे विक- ल्पेन क्रियेरन् एनसि लघुनि लघूनि गुरुणि गुरूणि ।” विष्णुपुराणम् । “एवं विषयभेदाद्वै व्यवस्थाप्यानि पुत्त्रक ! । प्रायश्चित्तानि सर्व्वाणि गुरूणि च लघूनि च ॥ अन्यथा हि महाबाहो ! लघूनामुपदेशतः । गुरूणामुपदेशो हि निष्प्रयोजनतां व्रजेत् ॥” महाभारते । “यद्यकार्य्यशतं कृत्वा कृतं गङ्गाभिषेचनम् । सर्व्वं दहति गङ्गाम्भस्तूलराशिमिवानलः ॥” व्रतानि शुद्धिकारणान्याह विश्वामित्रः । “कृच्छ्रं चान्द्रायणादीनि शुद्ध्यभ्युदयकारणम् । प्रकाशे वा रहस्ये वा संशयेऽनुक्तके स्फुटे ॥ प्राजापत्यः शान्तपनः शिशुकृच्छ्रः पराककः । अतिकृच्छ्रः पर्णकृच्छ्रः सौम्यः कृच्छ्राति- कृच्छ्रकः ॥ महाशान्तपनः शुद्ध्यै तप्तकृच्छ्रस्तु पावनः । जलोपवासकृच्छ्रश्च ब्रह्मकूर्च्चस्तु शोधकः ॥ एते समस्ता व्यस्ता वा प्रत्येकमेकशोऽपि वा । पातकादिषु सर्व्वेषु पापकेषु प्रयत्नतः ॥ कार्य्याश्चान्द्रायणैर्युक्ताः केवला वा विशुद्धये । शिशुचान्द्रायणं प्रोक्तं यतिचान्द्रायणं तथा ॥ यवमध्यं तथा प्रोक्तं तथा पिपीलिकाकृति । उपवासस्त्रिरात्रं वा मासः पक्षस्तदर्द्धकम् ॥ षडहद्वादशाहादि कार्य्यं शुद्धिफलार्थिना । उपपातकयुक्तानामनादिष्टेषु चैव हि ॥ प्रकाशे च रहस्ये च अभिसन्ध्याद्यपेक्षया । जातिशक्तिगुणान् दृष्ट्वा सकृद्बुद्धिकृतं तथा ॥ अनुबन्धादिकं दृष्ट्वा सर्व्वं कार्य्यं यथाक्रमम् ॥” प्रकाशकृते पापे व्रतानि मुख्यानि । रहस्यकृते जपादीनि । यथा प्राजापत्यादीन्यभिधाय मनुः । “एतैर्द्विजातयः शोध्या व्रतैराविष्कृतैनसः । अनाविष्कृतपापांस्तु मन्त्रैर्होमस्तु शोधघेत् ॥” देवलः । “प्रकाश उक्तं यक्तिञ्चित् विंशभागो रहस्यके । त्रिंशभागः षष्टिभागः कल्प्यो जात्याद्यपेक्षया ॥” इति प्रायश्चित्तविवेकः ॥ अथ प्रायश्चित्तपूर्ब्बाहकृत्यम् । शङ्खलिखितौ । “वाप्य केशनखान् पूर्ब्बं घृतं प्राश्य बहिर्निशि । प्रत्येकं नियतं कालमात्मनो व्रतमादिशेत् । प्रायश्चित्तमुपासीनो वाग्यतस्त्रिसवनं स्पृशेत् ॥” केशधारणेच्छायां द्विगुणव्रतादिकमाह हारीतः । “राजा वा राजपुत्त्रो वा ब्राह्मणो वा बहुश्रुतः । केशानां वपनं कृत्वा प्रायश्चित्तं समाचरेत् ॥ केशानां धारणार्थन्तु द्बिगुणं व्रतमाचरेत् । द्बिगुणे तु व्रते चीर्णे द्विगुणा दक्षिणा भवेत् ॥” विद्वद्विप्रनृपस्त्रीणां नेष्यते केशवापनम् । ऋते महापातकिनो गोहन्तुश्चावकीर्णिनः ॥” सधवास्त्रीणां विशेषमाह भवदेवभट्टधृतं वच- नम् । “वपनं नैव नारीणां नानुव्रज्या जपादिकम् । न गोष्ठे शयनं तासां न च दद्याद्गवाजिनम् ॥ सर्व्वान् केशान् समुद्ध्वृत्य छेदयेदङ्गुलिद्वयम् । सर्व्वत्रैवं हि नारीणां शिरसो मुण्डनं स्मृतम् ॥” अथ धेनुमूल्यव्यवस्था । तत्र संवर्त्तः । “प्राजापत्यव्रताशक्तौ धेनुं दद्यात् पयस्विनीम् । धेनोरभावे दातव्यं तुल्यं मूल्यं न संशयः ॥” पयस्विनीमिति विशेषणं दुग्धोपयोगाय । स च वत्सं विना न सम्भवति । अतः सवत्साया एव दानं मुख्यम् । तदभावे यथोचितं मूल्यम् । तद- सम्भवे पुराणत्रयम् । द्वात्रिंशत्पणिका गावो वत्सः पौराणिको भवेदिति कात्यायनवचनात् । षट्त्रिंशन्मतमिति कृत्वा पठन्ति । “धेनुः पञ्चभिराढ्यानां मध्यानां त्रिपुराणिकी । कार्षापणैकमूल्या हि दरिद्राणां प्रकीर्त्तिता ॥” प्रायश्चित्तोत्तरकर्त्तव्याणि । यथा । भविष्ये । “क्रियते शुद्धये यत्तु ब्राह्मणानान्तु भोजनम् । शुद्ध्यर्थमिति तत् प्रोक्तं वैनतेय ! मनीषिभिः ॥” जावालः । “आरम्भे सर्व्वकृच्छ्राणां समाप्तौ च विशेषतः । आज्येनैव हि शालाग्नौ जुहुयादाहुतीः पृथक् । श्राद्धं कुर्य्याद्व्रतस्यान्ते गोहिरण्यान्नदक्षिणम् ॥” प्रायश्चित्तानन्तरं गोभ्यो यवसं दद्यात् । यदि तु गावस्तद्दत्ततृणं न गृह्णीयुस्तदा पुनस्तत्प्राय- श्चित्तमनुतिष्ठेत् । यथा हारीतः । स्वशिरसा यवसमादाय गोभ्यो दद्यात् यदि ताः प्रमुदिता गृह्णीयुरथैनं प्रवर्त्तयेयुः । एनं कृतप्रायश्चित्तम् । इतरथा न । इति प्रायश्चित्ततत्त्वम् ॥ * ॥
अथ प्रायश्चित्तविवेकोक्तनवविधपापानां प्रायश्चित्तानि लिख्यन्ते । अथातिपातकानि । प्रायश्चित्तानि । त¯दशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा । ब्राह्मणस्य मातृगमनं दुहितृ- गमनं स्नुषागमनञ्च । अज्ञानतो द्बिगुणद्बादशवार्षिकव्रतम् । तत्तु महापातके द्रष्टव्यम् । ज्ञानत एतद्द्विगु- णम् । ३६० धेनवः । १०८० कार्षा- पणाः । तल्लभ्य- स्वर्णादि वा । २०० गावः । अशक्तौ २०० कार्षापणाः । क्षत्त्रियवैश्यशूद्राणां मातृ- दुहितृस्नुषागमनम् । हुताशनप्रवेशेन मरणम् । चतुर्व्विंशति- वार्षिकव्रतं वा । एतत्तु अकामतः कामतस्तद्द्वैगुण्यम् । मातृदुहितृस्नुषा- णामपि एतद्व्रतादिकं करणीयम् । ३६० धेनवः । १०८० कार्षा- पणाः । तल्लभ्य- स्वर्णादि वा । २०० गावः । अशक्तौ २०० कार्षापणाः । अथ महापातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा । अकामतो ब्राह्मणकर्त्तृकब्रह्म- वधः । द्बादशवार्षिकव्रतम् । यथा मनुः । “ब्रह्महा द्बादशाब्दानि कुटों कृत्वा वने वसेत् । भैक्ष्याण्यात्मविशुद्ध्यर्थं कृत्वा शवशिरो- ध्वजम् । भिक्षाशी विचरेद्ग्रामं वन्यै- र्यदि न जीवति ॥” १८० धेनवः । ५४० कार्षा- पणाः । तल्लभ्य- हिरण्यादिकं वा । १०० गावः । तदशक्तौ १०० कार्षापणाः । कामतो ब्राह्मणकर्त्तृकब्रह्म- वधः । याज्ञवल्क्योक्तप्रकारेण मरणम् । तथा । लोमभ्यः स्नाहीति ऋचा लोमप्रभृति वै तनुम् । मज्जान्तां जुहुयाद्बापि मन्त्रै- रेभिर्यथाक्रमम् । एतत्तु कलौ ब्राह्म- णेतरपरम् । तदशक्तौ द्बिगुणद्बादश- वार्षिकव्रतम् । ३६० धेनवः । १०८० कार्षा- पणाः । तल्लभ्य- स्वर्णादि वा । २०० गावः । अशक्तौ २०० कार्षापणाः । ज्ञानतो ब्राह्मणकर्त्तृकब्राह्मणी- गर्भवधः । ब्रह्मवधप्रायश्चित्तम् । अज्ञानत एतदर्द्धम् । अनुपनीतबालकवधेऽप्येवम् । ३६० धेनवः । १०८० कार्षा- पणाः । तल्लम्य- स्वर्णादि वा । २०० गावः । अशक्तौ २०० कार्षापणाः । अकामतः सवनस्थब्राह्मणवधः । द्बिगुणद्वादशवार्षिकव्रतम् । ३६० धेनवः । १०८० कार्षा- पणाः । तल्लभ्य- स्वर्णादि वा । २०० गावः । अशक्तौ २०० कार्षापणाः । कामतः सवनस्थब्राह्मणवधः । तद्द्वैगुण्यम् । ४८ अष्टचत्वारिंशद्वार्षिक- व्रतम् । ७२० धेनवः । २१६० कार्षा- पणाः । तल्लभ्य- स्वर्णादि वा । ४०० गावः । अशक्तौ ४०० कार्षापणाः । ब्राह्मणकर्त्तृकमातृसोदरभ्रातृ- गुरुश्रोत्रियाहिताग्नीनां वधः । ४८ अष्टचत्वारिंशद्बार्षिकव्रतम् । एतच्च कामतः । अकामत एतदर्द्धम् । ७२० धेनवः । २१६० कार्षा- पणाः । तल्लभ्य- स्वर्णादि वा । ४०० गावः । अशक्तौ ४०० कार्षापणाः । ज्ञानतो ब्राह्मणकर्त्तृकवेदपार- गाततायिब्राह्मणवधः । १२ वार्षिकव्रतम् । १८० धेनवः । ५४० कार्षा- पणाः । तल्लभ्य- स्वर्णादि वा । १०० गावः । अशक्तौ १०० कार्षापणाः । अज्ञानतस्तस्य वधः । तदर्द्धम् । ६ वार्षिकव्रतम् । ९० धेनवः । २७० कार्षा- पणाः । ५० गावः । तदशक्तौ ५० का- र्षापणाः । ज्ञानतोऽज्ञानतो वा ब्राह्मण- कर्त्तृकपतितब्राह्मणवधः । तथा । तथा । तथा । तथा । अकामत आग्रहारिकादि- ब्राह्मणवधः । एकवार्षिकव्रतम् । १५ धेनवः । ४५ कार्षापणाः । ९ गावः । तदशक्तौ ८ । ॑ ६ ॥। कार्षापणाः । कामतस्तस्य वधः । तद्द्विगुणम् । तद्द्विगुणम् । तद्द्विगुणम् । तद्द्विगुणम् । अकामतः क्षत्त्रियकर्त्तृकब्रह्म- वधः । ब्राह्मणकर्त्तृकवधप्रायश्चित्तद्बिगुणम् । तच्च २४ वार्षिकव्रतम् । ३६० धेनवः । १०८० कार्षा- पणाः । तल्लभ्य- स्वर्णादि वा । २०० गावः । अशक्तौ २०० कार्षापणा । अथ महापातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा । कामतस्तद्वधः । तद्द्विगुणम् । तद्द्विगुणम् । तद्द्विगुणम् । तद्द्विगुणम् । अकामतो वैश्यकर्त्तृकब्रह्मवधः । ब्राह्मणकर्त्तृकवधप्रायश्चित्तत्रिगुणम् । तच्च ३६ वार्षिकव्रतम् । ५४० धेनवः । १६२० कार्षा- पणाः । ३०० गावः । अशक्तौ ३०० कार्षापणाः । कामतो वैश्यकर्त्तृकब्रह्मवधः । ७२ वार्षिकव्रतम् । १०८० धेनवः । ३२४० कार्षा- पणाः । ६०० गावः । अशक्तौ ६०० कार्षापणाः । अकामतः शूद्रकर्त्तृकब्रह्मवधः । ब्राह्मणकर्त्तृकवधप्रायश्चित्तचतुर्गुणम् । तच्च ४८ वार्षिकव्रतम् । ७२० धेनवः । २१६० कार्षा- पणाः । ४०० गावः । अशक्तौ ४०० कार्षापणाः । कामतस्तद्वधः । तद्द्विगुणम् । तद्द्विगुणम् । तद्द्विगुणम् । तद्द्विगुणम् । अकामतो ब्राह्मणकर्त्तृकब्राह्म- णीवधः । ब्रह्मवधप्रायश्चित्तार्द्धम् । तच्च ६ वार्षिक- व्रतम् । ९० धेनवः । २७० कार्षा- पणाः । ५० गावः । अशक्तौ ५० का- र्षापणाः । कामतस्तद्वधः । तद्द्विगुणम् । क्षत्त्रियस्य ब्राह्मणीवधे ब्राह्मणकंर्त्तृकवधप्रायश्चित्तद्बिगुणम् । वैश्यस्य त्रिगुणम् । शूद्रस्य चतुर्गुणम् । अनेकब्राह्मणवधे प्रायश्चित्तस्यैकत्वम् । यदेव साक्षाद्वधकर्त्तुः प्रायश्चित्तं तदेव स्वल्पप्रहर्त्तुरनग्राहकस्य अप्रवृत्तप्रव- र्त्तकरूपप्रयोजकस्य च पादहीनम् । बध्यप्रतिरोधकस्य अनुग्राहकस्य प्रवृत्त- प्रवर्त्तकरूपप्रयोजकस्य च अर्द्धम् । अनु- मन्तुर्निमित्तिनश्च पादः । अशक्तौ स्त्री- बालवृद्धानां सर्व्वत्रार्द्धम् । तद्द्विगुणम् । तद्द्विगुणम् । तद्द्विगुणम् । ज्ञानतो ब्राह्मणस्य पैष्टीसुरा- पानम् । द्विरभ्यस्तगौडीमा- ध्बीपानञ्च । अग्निसमस्पर्शानां सुरागोमूत्रजलदुग्धघृत- गोमयरसानामन्यतमस्यामरणात् पा- नम् । चतुर्विंशतिवार्षिकव्रतं वा । ३६० धेनवः । १०८० कार्षा- पणाः । तल्लभ्य- स्वर्णादि वा । २०० गावः । अशक्तौ २०० कार्षापणाः । अज्ञानतो ब्राह्मणस्य तासां पानम् । एतदर्द्धम् । तत्तु द्वादशवार्षिकव्रतम् । १८० धेनवः । ५४० कार्षा- पणाः । तल्लभ्य- स्वर्णादि वा । १०० गावः । अशक्तौ १०० कार्षापणाः । अज्ञानतः क्षत्त्रियस्य पैष्टी- सुरापानम् । नववार्षिकव्रतम् । ज्ञानत एतद्द्विगुणम् । १३५ धेनवः । ४०५ कार्षा- पणाः । तल्लभ्य- स्वर्णादि वा । ७५ गावः । अशक्तौ ७५ का- र्षापणाः । अज्ञानतो वैश्यस्य पैष्टीसुरा- पानम् । षाड्वार्षिकव्रतम् । ज्ञानत एतद्द्विगुणम् । स्त्रीबालवृद्धानामर्द्धादिकम् । ९० धेनवः । २७० कार्षा- पणाः । तल्लभ्य- स्वर्णादि वा । ५० गावः । अशक्तौ ५० का- र्षापणाः । अज्ञानतो ब्राह्मणकर्त्तृकब्राह्म- णस्वामिकाशीतिरक्तिकाप- रिमितसुवर्णस्तेयम् । अपहृतद्रव्यं तस्यानुरूपं मूल्यं वा स्वामिने दत्त्वा द्बादशवार्षिकव्रतं करणीयम् । १८० धेनवः । ५४० कार्षा- पणाः । तल्लभ्य- स्वर्णादि वा । १०० गावः । अशक्तौ १०० कार्षापणाः । ज्ञानतस्तत्कर्त्तृकतत्स्तेयम् । एतद्द्विगुणं २४ वार्षिकव्रतम् । गुणवद्- ब्राह्मणकर्त्तुके तु सर्व्वत्रार्द्धम् । ३६० धेनवः । १०८० कार्षा- पणाः । २०० गावः । अशक्तौ २०० कार्षापणाः । ज्ञानतः क्षत्त्रियवैश्यशूद्रकर्त्तृक- ब्राह्मणस्वामिकाशीतिरक्ति- कापरिमितसुवर्णस्तेयम् । राजकर्त्तृकमुषलाघातेन मरणम् । चतु- र्विंशतिवार्षिकव्रतं वा । ३६० धेनवः । १०८० कार्षा- पणाः । तल्लभ्य- स्वर्णादि वा । २०० गावः । अशक्तौ २०० कार्षापणाः । अथ महापातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा । अज्ञानतस्तत्कर्त्तृकतत्स्वामिक- तत्सुवर्णस्तेयम् । द्वादशवार्षिकव्रतं स्त्रीबालवृद्धानामर्द्धम् । एकस्योभयधर्म्मवत्त्वे पादः । १८० धेनवः । ५४० कार्षा- पणाः । तल्लभ्य- स्वर्णादि वा । १०० गावः । अशक्तौ १०० कार्षापणाः । ज्ञानतो गुर्व्वङ्गनागमनम् । अर्थात् विमातृगमनम् । शूद्रस्य ब्राह्मणीगमनञ्च । गुरुतल्पगः पापमभिभाष्य तप्ते लौहमये सुप्यात् । ज्वलन्तीं लौहप्रतिमां मृण्मयीं प्रतिमां वा आलिङ्ग्य म्रियेत । स्वयं वा शिश्नवृषणावुत्कृत्य अञ्जलौ निधाय आमरणात् नैरृतीन्दिशमातिष्ठेत् । चतुर्विंशतिवार्षिकव्रतं वा कुर्य्यात् । गुर्व्व- ङ्गनयापि एतत् करणीयम् । ३६० धेनवः । १०८० कार्षा- पणाः । तल्लभ्य- स्वर्णादि वा । २०० गावः । अशक्तौ २०० कार्षापणाः । अज्ञानतो गुर्व्वङ्गनागमः । द्वादशवार्षिकव्रतम् । बालवृद्धयोरर्द्धम् । एतच्चातुर्वर्ण्यविषयम् । १८० धेनवः । ५४० कार्षा- पणाः । तल्लभ्य- स्वर्णादि वा । १०० गावः । अशक्तौ १०० कार्षापणाः । चतुर्णां महापातकिनां संसर्गः । ज्ञानतः सकृत् प्रथमसंसर्गिणोऽष्टादश- वार्षिकव्रतम् । २७० धेनवः । ८१० कार्षा- पणाः । तल्लभ्य- स्वर्णादि वा । १५० गावः । अशक्तौ १५० कार्षापणाः । तत्र गुरुसंसर्गो यथा । पतिता- चार्य्यात् वेदाध्ययनम् । १ । पतितशिष्याय वेदाध्याप- नम् । २ । पतितेन ऋत्विजा ज्योतिष्टोमादियजनम् । ३ । पतितस्य ज्योतिष्टोमादि- निष्पादनरूपयाजनम् । ४ । पतितेन पतितया वा परि- णयनम् । ५ । स्तेयादिपति- तान्यब्राह्मणीगमनम् । ६ । पतितान्नस्य पतितेन सहैक- पात्रे भोजनम् । ७ । अज्ञानतः सकृत्प्रथमसंसर्गिणो नववार्षिक- व्रतम् । १३५ धेनवः । ४०५ कार्षा- पणाः । ७५ गावः । अशक्तौ ७५ का- र्षापणाः । ज्ञानतो द्वितीयसंसर्गिणः नववार्षिक- व्रतम् । १३५ धेनवः । ४०५ कार्षा- पणाः । ७५ गावः । अशक्तौ ७५ का- र्षापणाः । अज्ञानतो द्बितीयसंसर्गिणः सार्द्धचतुर्वा- र्षिकव्रतम् । ६८ धेनवः । २०२ ॥ ० कार्षा- पणाः । ३८ गावः । अशक्तौ ३७ ॥ ० कार्षापणाः । ज्ञानतस्तृतीयसंसर्गिणः षाड्वार्षिकव्रतम् । ९० धेनवः । २७० कार्षा- पणाः । ५० गावः । अशक्तौ ५० का- र्षापणाः । अज्ञानतस्तृतीयसंगर्गिणस्त्रैवार्षिकव्रतम् । ४५ धेनवः । १३५ कार्षा- पणाः । २५ गावः । अशक्तौ २५ का- र्षापणाः । ज्ञानाज्ञानतश्चतुर्थसंसर्गिणः प्रायश्चित्ता- भावः । ब्रह्मघातिनां क्षत्त्रियवैश्य- शूद्राणां ज्ञानाज्ञानतः संसर्गे तु क्रमेण एतस्य द्बिगुणं त्रिगुणंचतुर्गुणं ज्ञेयम् । तत्र लघुसंसर्गो यथा । उप- नयनं बिना पतिताय वेदा- ध्यापनम् । १ । पतितांत्ता- दृशाध्ययनम् । २ । पतित- यजमानस्य अष्टकादियज्ञ- याजनम् । ३ । पतितेन ऋ- त्विजाष्टकादियज्ञयजनम् । ४ । पतितस्वब्राह्मणीगमनम् । ५ । पतितशूद्रागमनम् । ६ । अपतितान्नस्य पतितेन स- हैकपात्रे भोजनम् । ७ । पतितोच्छिष्टभोजनम् । ८ । ज्ञानतः षण्माससंसर्गे प्रथमसंसर्गिणोऽष्टा- दशवार्षिकव्रतम् । २७० धेनवः । ८१० कार्षा- पणाः । १५० गावः । अशक्तौ १५० कार्षापणाः । अज्ञानतः षण्माससंसर्गे प्रथमसंसर्गिणो नववार्षिकव्रतम् । १३५ धेनवः । ४०५ कार्षा- पणाः । ७५ गावः । अशक्तौ ७५ का- र्षापणाः । ज्ञानतः षण्माससंसर्गे द्वितीयसंसर्गिणो नववार्षिकव्रतम् । १३५ धेनवः । ४०५ कार्षा- पणाः । ७५ गावः । अशक्तौ ७५ का- र्षापणाः । अज्ञाततः षण्माससंसर्गे द्वितीयसंसर्गिणः सार्द्धचतुर्वार्षिकव्रतम् । ६८ धेनवः । २०२ ॥ ० कार्षा- पणाः । ३८ गावः । अशक्तौ ३७ ॥ ० कार्षापणाः । ज्ञानतः षण्माससंसर्गे तृतीयसंसर्गिणः षाड्वार्षिकव्रतम् । ९० धेनवः । २७० कार्षा- पणाः । ५० गावः । अशक्तौ ५० का- र्षापणाः । अज्ञानतः षण्माससंसर्गे तृतीयसंसर्गिण- स्त्रैवार्षिकव्रतम् । ४५ धेनवः । १३५ कार्षा- पणाः । २५ गावः । अशक्तौ २५ का- र्षापणाः । चतुर्थसंसर्गिणो ज्ञानाज्ञानतः प्रायश्चित्ता- भावः । अथ महापातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा । महापातकिनां लघुतरसंसर्गो यथा । एकशय्याशनयाना- दिः । ततो लघुतर आलाप- स्पर्शनिःश्वासादिः । एभिश्च त्रिभिर्लघुतरसंसर्गैरेको लघु- संसर्गः । ज्ञानतस्त्रिभिर्लघुसंसर्गैर्वत्सरेण साम्यम् । तेनाष्टादशवार्षिकव्रतम् । २७० धेनवः । ८१० कार्षा- पणाः । तल्लभ्य- स्वर्णादि वा । १५० गावः । अशक्तौ १५० कार्षापणाः । अज्ञानतो वत्सरद्वयेन । तथा । तथा । तथा । ज्ञानत एकैकशो वत्सरत्रंयेण । तथा । तथा । तथा । अज्ञानाद्वत्सरषट्केन । तथा । तथा । तथा । संलापादीनां त्रयाणां एकैकयानादिसमा- नत्वात् ज्ञानतो वत्सरत्रयेण पातः । तथा । तथा । तथा । संलापादीनां त्रयाणां एकैकयानादिसमा- नत्वादज्ञानाद्बर्षषट्केन पातः । तेना- ष्टादशवार्षिकव्रतम् । २७० धेनवः । ८१० कार्षा- पणाः । तल्लम्य- स्वर्णादि वा । १५० गावः । अशक्तौ १५० कार्षापणाः । ज्ञानादेकैकशो वत्सरनवकेन । तथा । तथा । तथा । अज्ञानादेकैकशोऽष्टादशवत्सरैः पातः ॥ * ॥
नवविधपापान्वितानां मध्यात् येन पापीयसा यः संसृष्टः स तस्य व्रतं पादहीनं कुर्य्यात् ॥ एतच्च प्रथमसंस- र्गिणाम् । द्वितीयसंसर्गिणां द्बिपाद- हीनम् । तृतीयसंसर्गिणां त्रिपादहीनं सर्व्वत्र ज्ञेयम् ॥ * ॥
संसर्गाणामुक्त- कालन्यूनाधिक्ये भागहारेण प्रायश्चित्त- न्यूनाधिक्यं ज्ञेयम् ॥ * ॥
रघुनन्दन- भट्टाचार्य्यमते कलौ लघुसंसर्गेषु प्रति- ग्रहादिषु पातित्याभावात् तत्प्रायश्चि- त्ताभावः ॥ तथा । तथा । तथा । पतितोत्पन्नत्वमपि महापात- किसंसर्गविशेषः । यस्य पतितस्य यत् प्रायश्चित्तं तस्य पातित्य- दशायां जातस्य पुत्त्रस्य तत् तृतीय- भागप्रायश्चित्तम् । तदानीं तज्जातायाः कन्यायाः पतितोत्पन्नपुत्त्रप्रायश्चित्ततृतीय- भागप्रायश्चित्तम् । अथानुपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा । समुत्कर्षे अनृतम् । तत्तु समुत्- कर्षिनिमित्तं वाचा क्रियया वा अन्यथा प्रतिपादनं यथा शूद्रस्य ब्राह्मणोऽहमिति वचनं यज्ञोपवीतधारणञ्च । अथवा परस्य सम्यग्जाति- विद्योत्कर्षे सति नायं ब्रा- ह्मणो न च किञ्चिदयं जा- नीते इत्यनृतवचनम् । १ । राजगामिपैशुनम् । तत्तु राजनि निर्द्दोषस्य दोष- ख्यापनम् । २ । गुरोरलीक- निर्ब्बन्धः । स तु गुरोर्जन्म- दातुर्मृषादोषाभियोगः । ३ । द्वादशवार्षिकव्रतम् । एतच्च ज्ञानात्यन्ता- भ्यासतः ॥ * ॥
एतन्मध्याद्यदुपपातके दृश्यते तदज्ञानादिना लघुविषयञ्चेत्या- दिव्यवस्थेयम् ॥ * ॥
यच्च वशिष्ठवचनं ब्रह्मोज्झः कृच्छ्रं द्बादशरात्रं चरित्वा पुनरुपयुञ्जीत वेदमाचार्य्यात् । विष्णुः । समुत्कर्षानृते गुरोश्चालीकनिर्बन्धे तदा- क्षारणे च मासं पयसा वर्त्तेत । आक्षारणं परदारगमनाभिशापः । वशिष्ठः । गुरोश्चालीकनिर्बन्धे सचेल- स्नातो गुरुं प्रसादयेत् प्रसादात् पूतो भवति । एतानि प्रमादादिकृते बो- ध्यानि । १८० धेनवः । ५४० कार्षापणाः । १०० गावः । अशक्तौ १०० कार्षापणाः । अथानुपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा । एतानि त्रीणि ज्ञानतः अत्यन्ताभ्यासे अज्ञानकृत- ब्रह्महत्यासमानि । याग- स्थयोः क्षत्त्रियवैश्ययोर्व्वधः । ४ । गर्भिणीवधः । ५ । रज- स्वलावधः । ६ । अत्रि- गोत्रावधः । ७ । ब्राह्मण- व्यतिरिक्ताविज्ञातगर्भवधः । ८ । शरणागतवधः । ९ । एतानि च अज्ञानकृतब्रह्म- हत्यासमानानि । ब्रह्मोज्झता । सा च अस- च्छास्त्राभियोगेन अधीत- वेदविस्मरणम् । १ । वेद- निन्दा । अर्थतो ग्रन्थतश्च । २ । कौटसाक्ष्यम् । ३ । सुहृद्- वधः । स च ब्राह्मणव्यति- रिक्तमित्रवधः । ४ । गर्हि- तान्नजग्धिः । सा च ज्ञानतो- ऽत्यन्ताभ्यासेन अन्त्यजान्न- भोजनम् । ५ । गर्हिताद्य- जग्धिः । ज्ञानतोऽत्यन्ता- भ्यासेन छत्राकलशुनादि- भोजनम् । ६ । एतानि षट् अज्ञानकृतसुरापानसमानि । द्वादशवार्षिकव्रतम् । १८० धेनवः । ५४० कार्षाप- णाः । तल्लभ्य- स्वर्णादि वा । १०० गावः । अशक्तौ १०० कार्षापणाः । ब्राह्मणसम्बन्धिनिःक्षेपहरणम् । १ । नरा २ श्व ३ रजत ४ भूमि ५ वज्र ६ मणीना ७ ञ्चाभ्यासेन हरणम् । एतानि सप्त ब्रा- ह्मणस्वामिकाशीतिरक्तिका- परिमितसुवर्णस्तेयसमानि । ज्ञानतो द्बादशवार्षिकव्रतम् । अज्ञानतस्तदर्द्ध्वम् । १८० धेनवः । ५४० कार्षाप- णाः । तल्लभ्य- स्वर्णादि वा । १०० गावः । अशक्तौ १०० कार्षापणाः । सपिण्डस्त्रीगमनम् । १ । ब्रा- ह्मणकुमारीगमनम् । २ । चाण्डालादिस्त्रीगमनम् । ३ । सवर्णमित्रस्त्रीगमनम् । ४ । पुत्त्रस्यासवर्णस्त्रीगमनम् । ५ । औरसेतरपुत्त्रभार्य्यागमनम् । ६ । पितृष्वसृगमनम् । ७ । मातृष्वसृगमनम् । ८ । ग- न्तारमपेक्ष्य हीनवर्णपितृ- पत्नीगमनम् । ९ । पितृव्य- पत्नीगमनम् । १० । माता- महपत्नीगमनम् । ११ । मा- तुलपत्नीगमनम् । १२ । श्व- श्रूगमनम् । १३ । स्वसृगम- नम् । १४ । ज्येष्ठभ्रातृपत्नी- गमनम् । १५ । राजपत्नी- गमनम् । १६ । श्रोत्रियज्ञानतो महापातकोक्तप्रकारेण मरणं तद्वैकल्पिकं चतुर्विंशतिवार्षिकव्रतम् । ३६० धेनवः । १०८० कार्षाप- णाः । तल्लभ्य- स्वर्णादि वा । २०० गावः । अशक्तौ २०० कार्षापणाः । अज्ञानतो द्वादशवार्षिकव्रतम् । १८० धेनवः । ५४० कार्षाप- णाः । तल्लभ्य- स्वर्णादि वा । १०० गावः । अशक्तौ १०० कार्षापणाः । पञ्चपुरुषाधिकगामिनीनामासां गमने चान्द्रायणम् । ८ धेनवः । २२ ॥ ० कार्षाप- णाः । सार्द्धसप्त- धेनुसंकलनात् । यथाशक्ति । अभ्यासव्यभिचारिण्याः सकृद्गमने अर्थात् सप्तमपुरुषगामिन्या गमने पराकः । ५ धेनवः । १५ कार्षापणाः । यथाशक्ति । अष्टमादिपुरुषगामिन्या गमने तप्तकृच्छ्रम् । ४ धेनवः । ११ । ० कार्षाप- णाः । पादोन- धेनुचतुष्टयस्य ग्राह्यत्वात् । यथाशक्ति । अथानुपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा । पत्नीगमनम् । १७ । ऋत्विक्- पत्नीगमनम् । १८ । उपा- ध्यायपत्नीगमनम् । १९ । शिष्यपत्नीगमनम् । २० । स्वसृसखीगमनम् । २१ । अ- सवर्णाजातदुहितृगमनम् । २२ । आचार्य्यपत्नीगमनम् । २३ । शरणागतागमनम् । २४ । प्रव्रजितागमनम् । २५ । धात्रीगगनम् । २६ । सा- ध्वीगमनम् । २७ । निः- क्षप्तस्त्रीगमनम् । २८ । व- र्णोत्तमागमनम् । २९ । एता- निगुरुतल्पगमनसमानि । * । इति चतुःप्रकाराण्यनुपात- कानि मिलित्वा एकपञ्चा- शत्संख्येयानि ॥ अज्ञानादारोहणमात्रे सम्बन्धविप्रकर्षे वा पराकस्तप्तकृच्छ्रो वा । ज्ञानतो महापातकोक्तप्रकारेण मरणम् । तद्बैकल्पिकं चतुर्विंशतिवार्षिकव्रतम् । ३६० धेनवः । १०८० कार्षाप- णाः । तल्लभ्य- स्वर्णादि वा । २०० गावः । अशक्तौ २०० कार्षापणाः । अज्ञानतो द्बादशवार्षिकव्रतम् । १८० धेनवः । ५४० कार्षाप- णाः । तल्लभ्य- स्वर्णादि वा । १०० गावः । अशक्तौ १०० कार्षापणाः । पञ्चपुरुषाधिकगामिनीनामासां गमने चान्द्रायणम् । ८ धेनवः । २२ ॥ ० कार्षाप- णाः । सार्द्धसप्त- धेनुसंकलनात् । यथाशक्ति । अभ्यासव्यभिचारिण्याः सकृद्गमने अर्थात् सप्तमपुरुषगामिन्या गमने पराकः । ५ धेनवः । १५ कार्षापणाः । यथाशक्ति । अष्टमादिपुरुषगामिन्या गमने तप्तकृच्छ्रम् । ४ धेनवः । ११ । ० कार्षाप- णाः । पादोन- धेनु-चतुष्टयस्य ग्राह्यत्