वाचस्पत्यम्
प्रालम्ब || न० प्रश्वर्षेणालम्यते प्र + आ + लम्ब—अच् । १ ऋजुतया कण्ठात् कम्यपाने माल्यादौ अमरः । २ प्रकर्षेण लम्ब- मानमात्रे त्रि० । संज्ञायां कन् अत इत्त्वम् । प्रालम्बिका स्वर्णादिरचितललन्तिकायां स्वर्णहारभेदे स्त्री अमरः ।
शब्दकल्पद्रुमः
प्रालम्बं || क्ली (प्रालम्बते इति । लवि अवस्रंसने + अच् ।)
कण्ठात् ऋजुलम्बमानमाल्यम् । इत्य- मरः । २ । ६ । १३६ ॥ (यथा, रघौ । ६ । १४ । “विस्रस्तमंसादपरो विलासी रत्नानुविद्धाङ्गदकोटिलग्नम् । प्रालम्बमुत्कृष्य यथावकाशं निनाय साचीकृतचारुवक्त्वः ॥” प्रकर्षेण लम्बमाने, त्रि ॥)