संस्कृत-शब्दकोशः

प्रावृषीण प्रावृषेण्या

प्रावृषेण्य

वाचस्पत्यम्

प्रावृषेण्य ||‍ त्रि० प्रावृषि भवः एन्य । १ वर्षाकालजाते २ कद- म्बवृक्षे पु० मेदि० । ३ कुठजवृक्षे ४ धाराकदम्बे च पु० राजनि० । ५ कपिकच्छ्वाम् ६ रक्तपुनर्नवायां स्त्री राजनि० । प्रावृषि दीयते कार्यं वा एन्य । ७ वर्षाकाले देये करादौ ८ तत्र कार्ये च त्रि० । ९ प्राचुर्य्ये न० शब्दर० ।


शब्दकल्पद्रुमः

प्रावृषेण्यः || त्रि (प्रावृषि भव इति । प्रावृष् + एण्यः ।)
प्रावृट्कालभवः । इति मेदिनी ॥ (यथा, रघौ । १ । ३६ । “स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमास्थितौ । प्रावृषेण्यं पयोवाहं विद्युदैरावताविव ॥”)
प्राचुर्य्यम् । इति शब्दरत्नावली ॥


शब्दकल्पद्रुमः

प्रावृषेण्यः || पुं, (प्रावृषि भवः प्रावृट् देवतास्य वेति । प्रावृष् + “कालेभ्यो भववत् ।” ४ । २ । ३४ । इति “प्रवृष एण्यः ।” ४ । ३ । १७ । इति एण्यः ।)
कदम्बवृक्षः । इति मेदिनी ॥ कुटजवृक्षः । धाराकदम्बः । इति राजनिर्घण्टः ॥



Correction: