वाचस्पत्यम्
प्रिय || त्रि० प्रीणाति प्री—तर्पणे क । १ भर्त्तरि पत्यौ अमरः २ भार्य्यायां स्त्री । ३ प्रियके मृगभेदे पु० स्त्री जटा० ४ ऋद्धि- नामोषधौ ५ हृद्ये त्रि० मेदि० । ६ जीवकौषधौ राजनि० ।
शब्दकल्पद्रुमः
प्रियः || पुं, (प्रीणातीति । प्री + “इगुपधज्ञाप्री- किरः कः ।” ३ । १ । १३५ । इति कः ।)
भर्त्ता । इत्यमरः । २ । ६ । ३५ ॥ (यथा, आर्य्यासप्तशत्याम् । ३४७ । “प्रणमति पश्यति चुम्बति संश्लिष्यति पुलक- मुकुलितैरङ्गैः । प्रियसङ्गाय स्फुरितां वियोगिणी वामबाहु- लताम् ॥” जामाता । यथा, मनुः । ३ । ११९ । “राजर्त्विक्स्नातकगुरून् प्रियश्वशुरमातुलान् । अर्हयेन्मधुपर्केण परिसंवत्सरात् पुनः ॥” कार्त्तिकेयः । यथा, महाभारते स्कन्दनामानु- कीर्त्तने । ३ । २३१ । ५ । “अमोघस्त्वनघो रौद्रः प्रियश्चन्द्राननस्तथा ॥”)
मृगविशेषः । इति जटाधरः ॥ जीवकौषधम् । इति राजनिर्घण्टः ॥ ऋद्धिनामौषधम् । हृद्ये, त्रि । इति मेदिनी ॥ (यथा, महाभारते । “सत्यं ब्रूयात् प्रियं ब्रूयात् नब्रूयात् सत्यमप्रियम् । प्रियञ्च नानृतं ब्रूयादेष धर्म्मः सनातनः ॥”)
प्रियोऽप्रियश्च कार्य्यवशाद्भवति । यथा, —
“न हि कस्य प्रियः को वा विप्रियो वा जगत्त्रये । काले कार्य्यवशात् सर्व्वे भवन्त्येवाप्रियाः प्रियाः ॥” इति श्रीकृष्णजन्मखण्डे ५ अध्यायः ॥