संस्कृत-शब्दकोशः

प्रिय प्रियकृत्

प्रियक

वाचस्पत्यम्

प्रियक ||‍ पु० प्रिय + स्वार्थे क संश्नायां कन् वा । १ पीतसा- लके (पियासाल) २ नीपे ३ चित्रमृगे ४ भ्रमरे ५ प्रियङ्गौ ६ कुङ्कुमे मेदि० ७ धाराकदम्ये ८ अस्वनवृक्षे राजनि० । ९ स्कन्दाबुचरभेदे भा० श० ४६ अ० । तस्यापत्यं विदा० अञ् । प्रैयक चित्वमृगापत्वे पुंस्त्री० ।


शब्दकल्पद्रुमः

प्रियकः || पुं, (प्रिय + स्वार्थे संज्ञायां वा कन् ।)
पीतशालकः । (यथा, रामायणे । २ । ७१ । १२-१३ । “तत्र रम्ये वने वासं कृत्वासौ प्राङ्मु खो ययौ । उद्यानमुज्जिहानायाः प्रियका यत्र पादपाः ॥ शालांस्तु प्रियकान् प्राप्य शीघ्रानास्थाय वाजिनः । अनुज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ ॥”)
नीपः । (यथा, हरिवंशे । ७२ । १५ । “प्रियकैः पुष्पितैः र्गौरं श्यामं वाणासनैः क्वचित् । कठोरतृणमाभाति निर्मयूररुतं वनम् ॥”)
चित्रमृगः । (यथा, माघे । ४ । ३२ । “रुचिरचित्रतनूरुहशालिभि- र्विचलितैः परितः प्रियकव्रजैः ॥” पक्षिविशेषः । यथा, महाभारते । ३ । १५८ । ५१ । “प्रियकैश्चातकैश्चैव तथान्यैर्विविधैः खगैः ॥”)
अलिः । प्रियङ्गुः । कुङ्कुमम् । इति मेदिनी ॥ धाराकदम्बः । अशनवृक्षः । इति राजनिर्घण्टः ॥ (स्कन्दानुचरविशेषः । यथा, महाभारते । ९ । ४५ । ६२ । “प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतापवान् ॥”)



Correction: