वाचस्पत्यम्
प्रियादि || विशेष्यवाचिनि समानाधिकरणस्त्रीलिङ्गशब्दे परे ब० ब्री० पूर्वस्य पुंवद्भावे पर्युदस्ते शब्दगणे व च गणः या० ग० सृ० उक्तो यथा “प्रिया मनोज्ञा कल्याणी सुभगा दुर्भगत् भक्ति सचिवा स्वा स्वसा कान्ता क्षान्ता सभा चपला दुहिता वामना तनया” । सुन्दरी प्रिया यस्य । सुन्दरी प्रिय इत्यादि ।