शब्दकल्पद्रुमः
प्रिया || स्त्री (प्रिय + टाप् ।)
नारी । इति शब्द- रत्नावली ॥ भार्य्या । इति हेमचन्द्रः ॥ (यथा, कुमारे । ३ । ३८ । “पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किम्पुरुषश्चुचुम्बे ॥”)
एला । इति शब्दचन्द्रिका । मल्लिका । मदिरा । इति राजनिर्घण्टः ॥ वार्त्ता । इति धरणिः ॥ (पञ्चाक्षरच्छन्दोविशेषः । इति छन्दोमञ्जरी ॥)