संस्कृत-शब्दकोशः

प्रियोदित प्रीण

प्री

वाचस्पत्यम्

प्री ||‍ तर्पणे भ्वा० उभ० सक० अनिट् । प्रयति ते अप्तैपीत् अप्रैष्ट पिप्राय पिप्रिये


वाचस्पत्यम्

प्री ||‍ तर्पणे सक० कान्तौ तृप्तौ अक० क्र्या० उभ० अनिट् । प्री- णाति प्रीणीते अप्रैषीत् अप्रैष्ट पिप्राय पिप्रिये । प्रीतः । णिच्बुक् । प्रीणयति ते ।


वाचस्पत्यम्

प्री ||‍ तर्पणे सक० चु० उभ० अनिट् । प्राययति ते अपिप्रयत्—ते । अबापि नुक् प्रीणयतीत्येके ।


वाचस्पत्यम्

प्री ||‍ प्रीतौ कान्तौ (इच्छायाम्) सक० दिवा० आत्म० अनिट् । प्रीयते अपैष्ट पिप्रिये ।


शब्दकल्पद्रुमः

प्री || क तर्पणे । इति कविकल्पद्रुमः ॥ (चुरा० पर०-सक०-अनिट् ।)
क, यं प्राययन्ति कवि- सूक्तिरसायनानि । इति हलायुधः ॥ प्रीणयत्य- पीति केचित् । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

प्री || ङ य प्रीतौ । कान्तौ । इति कविकल्पद्रुमः ॥ (दिवा०-आत्म०-अक०-अनिट् ।)
प्रीतिरिह प्रीतीभावः । ङ य, यः प्रीयते प्रणयिषु । इति हलायुधः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

प्री || ञ ग कान्तौ । तर्पणे । इति कविकल्पद्रुमः ॥ (क्र्या०-उभ०-अक०-सक० च-अनिट् ।)
तर्पण- मिह प्रीतीभावः प्रीतीकरणञ्च । ञ ग, प्रभुः प्रीणातु विश्वभुक् । प्रीणाति बान्धवजनानिति हलायुधः । प्रीणीते । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

प्री || ञ तर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-सक०-अनिट् ।)
ञ, प्रयति प्रयते । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

प्रीः || स्त्री (प्री + क्विप् ।)
प्रीतिः । इति कन- धातुटीकायां दुर्गादासः ॥ प्रथमा विभक्तिः । यथा, “त्रिशः प्रीद्बीत्रीचीपीषीप्त्यः । स्यादीनि त्रीणि त्रीणि क्रमात् प्रीद्वीत्रीचीपीषीप्ती- संज्ञानि स्युः ।” इति मुग्धबोधव्याकरणम् ॥



Correction: