संस्कृत-शब्दकोशः

प्रेङ्खत् प्रेङ्खित

प्रेङ्खा

वाचस्पत्यम्

प्रेङ्खा ||‍ स्त्री प्र + इखि बा० आधारे अङ् । १ दोलायाम् अमरः भावे अङ् । २ परिभ्रमणे ३ स्वार्थकगतौ अश्वगतौ इति पाठान्तरम् । ४ गृहभेदे मेदि० ५ नृत्ये च धरणिः ।


शब्दकल्पद्रुमः

प्रेङ्खा || स्त्री (प्रेङ्ख्यते गम्यतेऽनयेति । प्र + इखि गतौ + करणे घञ् । टाप् ।)
दोला । इत्य- मरः । २ । ८ । ५३ ॥ (यथा, सुश्रुते चिकित्- सितस्थाने २४ अध्याये । “नाग्निगोगुरुब्राह्मण- प्रेङ्खादम्पत्यन्तरेणाभियायात् ॥” * ॥
)
पर्य्यटनम् । अश्वगतिः । संवेशनान्तरम् । इति मेदिनी । खे, ३ ॥ नृत्यम् । इति धरणिः ॥



Correction: