शब्दकल्पद्रुमः
प्रेङ्खन् || [त्] त्रि, (प्र + इखि गतौ + शतृ ।) चलन- विशिष्टः । संसक्तिविशिष्टः । यथा, — “ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठ- प्रेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः ॥” इत्याद्यमरुशतके । १ ॥