संस्कृत-शब्दकोशः

प्रेतकर्मन् प्रेतगृह

प्रेतकार्य

शब्दकल्पद्रुमः

प्रेतकार्य्यं || क्ली (प्रेताय प्रेतस्य वा कार्य्यम् ।)
नृतस्य दाहादिसपिण्डीकरणान्तं कर्म्म । यथा, “अकृत्वा प्रेतकार्य्याणि प्रेतस्य धनहारकः । वर्णानां यद्वधे प्रोक्तं तद्व्रतं नियतश्चरेत् ॥” इति दायतत्त्वम् ॥ (यथाच महाभारते । १ । १०२ । ६५ । “धर्म्मात्मा स तु गाङ्गेयश्चिन्ताशोकपरायणः । प्रेतकार्य्याणि सर्व्वाणि तस्य सम्यगकारयत् ॥”)



Correction: