वाचस्पत्यम्
प्रेतगृह || न० प्रेतस्य मृतस्य गृहमिव । मृतस्य शरीराधारे श्मशाने हेमच० । प्रेतावासादयोऽप्यत्र ।
शब्दकल्पद्रुमः
प्रेतगृहं || क्ली (प्रेतस्य गृहम् ।) श्मशानम् । इति हेमचन्द्रः । ४ । ५५ ॥