वाचस्पत्यम्
प्रेतनिर्हारक || पु० प्रेतं निर्हरति गृहात् श्मशानभूमिं निर् + हृ—ण्वुल् । शवहारके “प्रेतनिर्हारकाश्चैव वर्जनीयाः प्रयत्नतः” तस्य अपाङ्क्तेयता मनुनोक्ता । तच्च कुल्लू धनग्रहणपूर्वकहरणपरतया व्याख्यातं यथा “प्रेतनिर्हारको धनग्रहणेन न तु धर्मार्थम् । “एतद्वै परमन्तपो यत् प्रेतमरण्यं हरन्तीति” श्रुत्या विहितत्वात्”