संस्कृत-शब्दकोशः

प्रेतनिर्हारक प्रेतपटह

प्रेतपक्ष

वाचस्पत्यम्

प्रेतपक्ष ||‍ पु० प्रेतानां पितॄणां प्रियः पक्षः शा० त० । गौणा- श्विनकृष्णपक्षे अत्र मृतयोः पित्रोः पार्वणविधिना त्रैपुरुषिकं श्राद्धं करणीयं यथाह श्रा० त० शङ्खः ||‍“सपिण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते । तत्र तत्र त्रयं कुर्य्यात् वर्जयित्वा मृताहनि । अमावस्यां क्षयो यस्य प्रेतपक्षेऽथ वा पुनः । सपिण्डीकरणादूर्द्ध्वं तस्योक्तः पार्वणो विधिः” । त्रयं सम्प्रदानानां त्रयं कुर्य्यात् त्रिभ्यो दद्यादित्यर्थः । मृताहपर्युदस्तत्रिदै- वतत्वस्य प्रतिप्रसवमाह अमावस्यामिति प्रेतपक्षोऽत्र पितृपक्षः अश्वयुक्कृष्णपक्ष इति यावत् न तु कृष्ण- पक्षमात्रं कृष्णपक्षसामान्यपरत्वेऽमावास्यापदवैयर्थापत्तेः पितृपक्षं विशेषयति हेमाद्रिमाधवाचार्य्यधृतं नाग- रखण्डम् “नभो वाऽथ नभस्यो वा मलमासो यदा भवेत् । सप्नमः पितृपक्षः स्यादन्यत्रैव तु पञ्चमः” । अत्र श्रावणभाद्रयोरन्यतरस्य मलमासत्वे आषाढापेक्षया सप्तमपक्षस्य पितृपक्षत्वात् अत्र मृतस्यैव प्रेतपक्षमृतत्वं न तु मलमासभाद्रकृष्णबक्षे मृतस्य । ततश्च तत्र मृतस्य वर्षान्तरेऽश्वयुक्कृष्ण क्षेऽपि तच्छ्राद्धकरणे न पार्वणं किन्त्वेकोद्दिष्टमिति । अत्र पार्वणो विधिः पार्वणेतिकर्त- व्यताकैकोद्दिष्टविधिरिति नव्यवर्द्धमानप्रभृतयः । तन्न पूर्यवचनोक्तत्रैपुरषिकस्य मृताहे पर्युदस्तस्य पार्वणोवि- धिरित्यनेन प्रतिप्रसवात् । तस्मात् सदैकोद्दिष्टं त्रैपुरुषिकं न तु षाट्पौरुषिकं “कर्षूसमन्वितं मुक्त्वा तथाद्यं श्राद्ध- षोडशम् । प्रत्याव्दिकञ्च शेषेषु पिण्डाः स्युः षडिति स्थितिः” इति छन्दोगपरिशिष्टवचनेन प्रत्याव्दिकव्यति रेकेण षट्संख्यानियमात् एवममावस्यादिमरणनिमित्तेन प्रातुरपि प्रत्याव्दिकं पार्वणविधिनैव “अपुत्रा ये मृताः केचित् स्त्रियो वा पुरुषाश्च ये । तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम्” इति आपस्तम्बवचने अपुत्रा इति विशेषणोपादनात् सपुत्राणां पार्वणाभ्यनु- ज्ञानात् । एतच्च मात्रादित्रितयदैवतं कार्यम् । “मात्रे पितामह्यै प्रपितामह्यै पूर्ववत् व्राह्मणान् भोजयित्वा” इत्यन्वष्टकायां तथादर्शनात् अवसानदिननिमित्तत्वेन पार्वणविधिना छन्दोगैरपि मात्रादित्रिकाणां श्राद्धं कर्त्तव्यम् “न योषिद्भ्यः पृथग् दद्यादवसानदिनादृते” । इति छन्दोगपरिशिष्टवचने विशेषतः प्रतिप्रसवात् । एवं सपिण्डीकरणेऽपि । एतच्च मृताहपार्वणं माता- पित्रोरेव । तथा च हेमाद्रिधृतकात्यायनवचनम् “सपि- ण्डीकरणादूर्द्ध्वं पित्रोरेव हि पार्वणम् । पितृव्यभा- तृमातृणामेकोद्दिष्टं सदैव तु” । मातृपदं सपत्नीमातृ- परम् । सपत्नीमात्रित्यत्र मातृपदस्य राजदन्तादि- त्वात् परनिपातः ततश्च वाक्ये मातृसपत्नीति न प्र- योज्यं किन्तु सपत्नीमातरित्यादिकम् । एवं साग्नि- कौरसक्षेत्रजाभ्यां मृताहे पार्वणं कर्त्तव्यम् “औरसक्षे- त्रजौ पुत्रौ विधिना पार्वणेन तु । प्रत्यव्दमितरे कुर्युरे- कोद्दिष्टं सुता दश” इति जावालवचनस्य “यत्र यत्र प्रदातव्यं सपिण्डीकरणात् परम् । प्रार्वणेन विधानेन देयमग्निमता सदा” इति मत्स्यपुराणवचनस्य चैकवा- क्यत्वात् । उशना च “प्रत्यव्दं दर्शवच्छ्राद्धं साग्निः कुर्वीत वै द्विजः । एकोद्दिष्टं सदा कुर्य्यान्निरग्निः श्राद्धदः सुतः” । अत्र नि० सि० विशेषमाह वृद्धपराशरः “संग्रामे संस्थितानाञ्च प्रेतपक्षे शशि- क्षये । तेषां पार्वणमेवोक्तं क्षयाहेऽपि च सत्तमैः” । “चन्द्र क्षयानाशकंयुगेषु यः प्रेतपक्षे मृतवान् सपिण्डः । मपिमिद्धतानामपि चाव्दिकानि भवन्ति तेषानिह पार्ब- णानि” । तथा “भ्रातुर्ज्येष्ठस्य कुर्वीत ज्येष्ठो भ्रातामु- जस्य च । दैवहीनं तु तत्कुर्य्यादिति धर्मविदब्रवीत्” । दैवहीनमेकोद्दिष्टम् ज्येष्ठो भ्रातानाद्यगर्भजः तथा च तत्रैवशातातपः “अनाद्यगर्भोज्येष्ठोऽपि भ्राता सद्भि- र्निगद्यते । ऋते सपिण्डनात्तस्य नैव पार्वणमाचरेत्” । आद्यगर्भे तु पार्वणमेकोद्दिष्टं वेत्यर्थः । मातुस्तु हेमाद्रौ कात्यायनः “प्रत्यव्दं यो यथा कुर्य्यात् पुत्रः पित्रे सदा द्विजः । तथैव मातुः कर्त्तव्यं पार्वणं चान्यदेव वा” । यत्तु तेनैवोक्तम् “सपिण्डीकरणादूर्ध्वं पित्रोरेव हि पार्वणम् । पितृव्यभ्रातृमातृणामेकोद्दिष्टं सदैव तु” इति तत् सापत्नमातृपरम् । यत्तु वृद्धपराशरः “अपुत्रस्य पितृव्यस्य तत्पुत्रो भ्रातृजो भवेत् । स एवास्य तु कु- र्वीत पिण्डदानादिकक्रियाम् । पार्वणं तेन कार्य्यं स्यात् पुत्रवद्भ्रातृजेन तु । पितृस्थाने तु त कृत्वा शेषं पूर्ववदाचरेत्” इति तत्पितृवद्देशाचारवद्व्यवस्थितमिति पृथ्वी चन्द्रः । श्राद्धदीपकलिकायां चतुर्विंशतिंवते तु “पितृव्यभ्रातृसातृणां ज्येष्ठानां पार्वणं भवेत् । एकोद्- दिष्टं कनिष्ठानां दम्पत्योः पार्वणं मिथः । अपुत्रस्य पि- तृध्यस्य भ्रातुश्चैवाग्रजन्मनः । मातामहस्य तत्पत्न्याः श्राद्धं पार्वणवद्भवेत्” इत्युक्तं तत्पत्न्याः कर्तृत्वेऽपि पार्व- णमेव “सर्वाभावे स्वयं पत्न्याः स्वभ्रातॄणाममन्त्रकम् । सपिण्डीकरणं कुर्युस्ततः पार्वणमेव च” इति लौगाक्षि स्मृतेः । “ततः पत्न्यपि कुर्वीत सापिण्ड्यं पार्वणं तथेति” सुमन्तूक्तेश्चेति निर्णयामृते उक्तम् । अन्ये त्वेतत्पाक्षिक पार्वणपरमाहुः अतएव “भर्तुः श्राद्धं तु या नारी मोहात्पार्वणमाचरेत् । न तेन तृप्यते भर्त्ता कृत्वा तु नरकं व्रजेत्” इति वचनं क्षयाहे पाक्षिकैकोद्दिष्ट प्रशंसार्थं न पार्वणनिषेधार्थमित्युक्तं त्रिस्थलीसेतौ भट्टच- रणैः । स्वभर्तृप्रभृतित्रिभ्य इत्यनेन विरोधाच्च अपुत्राणामृ चाह हेमाद्रावापस्तम्वः “अपुत्रा ये मृताः केचित् स्त्रियो वा पुरुषाश्च गे । तेषामपि च देयं स्यादैकोद्- दिष्टं न पार्वणम् । मित्रबन्धुसपिण्डेभ्यः स्त्रीकुमारीभ्य एव च । दद्याद्वै मासिकं श्राद्धं सांवत्सरमतोऽन्यथा” । पारिजाते तु अन्यथा पार्वणमित्युक्त्वा सर्वत्र पार्वणमि- त्युक्तम् एकोद्दिष्टवाक्यानि तु तीर्थमहालयपराणी- त्युक्तम् । पृथ्वीचन्द्रोदये वृद्धगार्ग्यः “मातुः सहोदरा या च पितुः सहभवा च या । तयोश्च नैव कुर्वीत् पार्वणं पिण्डनादृते” प्रचेताः “सपिण्डीकरणादूर्ध्व- मेकोददिष्टं विधीयते । अपुत्राणां च सर्वेषामपत्नीनां तथैव च” । अपत्नीनां ब्रह्मचर्य्यादीनाम् । मार्कण्डेयपु- राणे “प्रतिसंवत्सरं कार्यमेकोद्दिष्टं नरैः स्त्रियाः । मृताहनि यथान्यायं नृणां यद्वदिहोदितम्” । नृणा- मिति दृष्टान्तात् नोविप्रहतपाषण्ड्यादीनां सपिण्ड- नाभायेऽपि सांवत्सरमेकोद्दिष्टं कार्यमेवेति शूलपाणिः । अत्रिवृद्धवसिष्ठौ “सपिण्डीकरणादूर्ध्वं यत्र यत्र प्रदी- यते । भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च । पितृव्यगुरवे श्राद्धमेकोद्दिष्टं न पार्वणम्” । यत्तु जातूकर्ण्यः “पितृव्यभ्रातृमातॄणामपुत्राणां तथैव च । मातामहस्यासुतस्य श्राद्धादि पितृवद्भवेत्” इति तदाव- श्यकत्वार्थं न तु पार्वणार्थमिति हेमाद्रिः । युक्तन्त्वेवम् “मायः पितरमारभ्य त्रयो मातामहाः स्मृताः । तेषां तु पितृवच्छाद्धं कुर्युर्दुहितृसूनवः” इति पुलस्त्योक्ते- र्मातामहस्य पार्वणमेव तत्साहचर्य्यात् पितृव्यादौ तथा “पितृव्यभ्रातृमातॄणामेकोद्दिष्टं च पार्वणमिति” क्षयाहो- पक्रमे पुलस्त्योक्तेश्च विकल्पः । केचित्त्वापस्तम्बादिवा- क्यानि “व्युत्क्रमाच्च प्रमीतानां नैव कायां सपिण्डता” इत्यस्य पितृव्यादिपरत्वादकृतसपिण्ड न पितृव्यादिपराणी- त्याहुः । माता सपत्नीमाता । एकोद्दिष्टं तु कनिष्टपर- मिति पृथ्वीचन्द्रोदयेऽप्येवम् । विशेषस्मधिकारिनिर्णये पागुक्तः । केवित्पुत्राभावेऽपि पितामहवार्षिकमप्याव- श्यकम् “पुत्राभावे च तत्पुत्रः पत्नी माता तथा पिता । वित्तामानेऽपि सच्छिव्यः कुर्य्यात्तखौर्ध्वदेहिकम्” इति मार्कण्डेयपुराणादित्याहुस्तत्र “पौत्रेणैकादशाहादि कर्त्तव्यं श्राद्धषोडशमिति” कातीये विशेषोक्तेः । प्रेतपक्षे श्राद्धकालादिनिरूपणम् श्वा० बि० यथा ब्रह्मपुराणे “अश्वयुक्कृष्णपक्षे त श्राद्धं कुर्य्याद् दिने- दिने । त्रिमागहीनं पक्षं बा त्रिभावं स्वर्द्धमेव वा । न सन्ति पितरश्चेति कृत्वा मनसि यो नरः । श्राद्धं न कुरते तत्र तस्य रक्तं पिनन्ति ते । यावच्च कन्यातुलयोः क्रमादास्ते दिवाकरः । तावत् श्रद्धस्य कालः स्या- च्छून्यं प्रेतपुरं तदा” । दिने दिने इति वीप्सा पक्ष श्राद्धार्था तेन पञ्चदश श्राद्धानि दर्शितानि । ननु तिथि- ह्रामादेकस्विन्नेव वक्षे चतुर्दशत्वादह्नां चतुर्दश श्राद्धानि प्राप्नुवन्ति । एवं तिथिवृद्याहर्वृद्धौ षोडशस्युः । न पञ्च- दशतिथ्यात्मकत्वाच्चान्द्रपक्षस्य दिने दिने पन्नदशतिथि- ष्वित्यर्थः तथा च एकस्मिन् दिने श्रातयोग्यतिथिद्वय- स्वाभे श्राद्धद्वयम् अहोरात्रवृद्धौ न श्राद्धवृद्धिः । तथा च विष्णुधर्मोत्तरप्रथमकाण्डम् “तिथिनैकेन दिवसश्चान्द्र- मानेन कीर्त्तितः । अहोरात्रेण चैकेन सावनो दिवसः स्मृतः” । त्रिभामहीनं पक्षं वा इति षष्ठ्यादिकल्प उक्तः त्रिभागमित्येकादश्यादिकल्प उक्तः अर्द्धमेवेति त्रयो- दश्यादिकल्पः । न तु अर्द्धमिति पक्षार्द्धमिति व्याख्यानं कल्पतरूक्तं० युक्तम् उत्तरोत्तरलघुकालोपदेशात् सन्नि- धानाच्च त्रिभागार्द्धप्रतीतेः । त्रिभागहीनत्रिभागपदयो- रपि पञ्चम्यादिविवेचनं कल्पतरोर्न युक्तमेव पक्षापेक्षया पञ्चम्यादेस्त्रिभागहीनादिपदार्थत्वानुपपत्तेरमुख्यत्वात् । गोतमोक्तपञ्चम्यादिकल्पस्य सामान्योपक्रमान्नाश्वयुक्पर- त्वम् । अतएव विष्णुधर्मोत्तरप्रथमकाण्डम् “उत्त- रादयनात् श्राद्धे श्रेष्ठं स्याद्दक्षिणायनम् । चातुर्मास्यञ्च तत्रापि प्रसुप्ते केशवे हितम् । प्रौष्ठपद्याः परः पक्ष- स्तत्रापि च विशेमतः । पञ्चम्यूर्ध्वञ्च तत्रापि दश- म्यूर्ध्वमतोऽप्यति । मघायुक्ता च तत्रापि शस्ता राजं- स्त्रयोदशी” । पञ्चव्यूर्ध्वदशम्यूर्ध्वमित्यनेन षष्ठ्याद्येकादश्या- दिकल्पावुक्तौ । न सन्वीत्यनेनाकरणे प्रत्यवायदर्शनं नित्यत्वज्ञापनार्थं तत्र च पक्षश्राद्धादिकल्पानां विषम- शिष्टत्वेनेच्छाविकल्पाऽसम्भवादेकादेया तिस्रो देयाः षड्देया इतिवत् फलभूमा कल्पनीयः । एतेषामेव क- ल्पानां दर्शितत्वादाश्विने कृष्णपक्षे एकस्मिन्नपि दिने श्राद्धं कर्त्तव्यमिति पक्षश्चिन्तनीयः सामान्यमासविहितन्तु स्यादेव । अत्र संशयः प्रौष्ठपद्यूर्ध्वं यः कृष्णपक्षः स पौर्णमास्यन्तमासव्यवस्थयाऽश्वयुक्कृष्णपक्षो भवति स यदा कन्योपक्रमः कन्यासमाप्यश्च तदा तत्र पक्षश्राद्धमविवाद- मेय यदा सिंहोपक्रमः कन्यासमाप्यश्च समस्त एव वा सिंहसमाप्यः तदा कीदृशः शास्त्रार्थः । अत्र स्विकन- प्रभृतयः ब्रह्मपुराणादिवचनैरेवात्र व्यवस्यां द्रष्टव्या- माहुः । यथा ब्रह्मपुराणम् “यावच्च कन्यातुलयोः क्रसादास्ते दिवाकरः । तावत् श्राद्धस्य कालः स्यात् शून्यं प्रेतपुरं तदा” । तथा भविष्यपुराणे “कन्यां गते सवितरि पितृराजानुशासनात् । तावत् प्रेतपुरी शून्या यावद्वृश्चिकदर्शनम् । ततो वृश्चिक आधाते निराशाः पितरो नृप! । पुनः स्वभवनं यान्ति शापं दत्त्वा सुदा- रुणम् । हंसे वर्षासु कन्यास्थे शाकेनापि मृहे वसन् । पञ्चम्या उत्तरे दद्यादुभयोर्वंशयोरृणम् । सूर्ये कन्या- स्थिते श्राद्धं यो न कुर्य्याद्गृहाश्रमी । कुतस्तस्म धनं पुत्राः पितृनिःश्वासपीडनात्” । हंसे सूर्य्ये इति । ऋण- मिव ऋणं पितृमातृकुलस्येदमवश्यं परिशोध्यम् इत्यर्थः एवमादिवचनैः कन्यासम्बन्धेनैव श्राद्धप्रतिपादनात् एत- स्यापि वचनस्य तदेकवाक्यतया सौराश्विनपरत्वम् । सौर- परत्वे लक्षणा स्यादिति चेन्न पौर्णमास्यन्तेऽपि तथात्वात् । अतः सिंहोपक्रमे कृष्णपक्षे कन्यासम्बन्धिन्येव भागे श्राद्धं स्यात् न सिंहसम्बन्धिनि अत पक्षश्राद्धं तत्र निवर्त्तत एव त्रिभागहीनमित्यादयः पक्षास्तत्र यथा- सम्भवं योजनीयाः । कन्यासम्बन्धिन्यपरपक्षे श्राद्ध- विधानात् उपक्रमे सिंहसम्बन्धेऽपि पक्षस्य कन्यासम्ब- न्धोऽस्त्येवेति चेन्न एकस्य पक्षावयविनः पञ्चदशतिथ्या- त्मकस्याभावात् अत एव पञ्चदशब्राह्मणसमुदायमध्ये एकस्य पुरुषोत्तमस्पर्शे न सर्वेषां पुण्यभागिता एतन्मूलमे वेदं वचनं “कृत्तिकादिभरण्यन्तं वारा वा रविसप्तकाः । नैते संयोगमात्रेण पुनन्ति सकलां तिथिम्” । एकस्य तिथ्यवयविनोऽभावादित्यर्थः इतरथा तु पूर्वदिने रात्रौ चतुर्थीमौमवारयोगे बुधवारेऽपि भौमयुक्तचतुर्थी विहितस्नानदानाद्यापत्तेः । यदा समस्त एवापरपक्षः सिंहार्के निपतेत् तदा तं पक्षं विहाय कन्यागतापर- पक्ष एव श्राद्धम् । नन्वेवं पञ्चमपक्षविरोधः । तथा कार्ष्णाजिनिः “शक्रध्वजनिपाताङ्को यः स्यात् पक्षस्तु पञ्चमः । स विज्ञेयोऽपरः पक्षः श्राद्धं तत्र विधीयते । पुत्रमायुर्धनं धान्यं भूतिमारोग्यमेव च । प्राप्नोति पञ्चमे दत्त्वा श्राद्धं कामांस्तथा परान् । एतानेव हि हिंसन्ति पञ्चमं यो व्यतिक्रमेत् । तस्मान्नातिक्रमेद् विद्वान् पञ्चमे पैवृकं विधिम्” । तथा जातूकर्ण्यः “आषाढीमवधिं कृत्वा यः स्यात् पक्षस्तु पञ्चमः । तत्र श्राद्धं प्रकुर्वीत कन्यां गच्छतु वा न वा” । जावालः “अगतेऽपि रवौ कन्यां श्राद्धं कुर्वीत यत्नतः । आषाद्याः पञ्चमः पक्षः प्रशस्तः पिवृकर्मणि” । उच्यते एतेषां वचनानां भोजदेवप्रभृतिभि- रलिस्यितत्वेन प्रामाण्याभावात् प्रत्युत पुत्रादिफलसम्ब- न्धावगमात् काम्यं तद्भविष्यति । कन्यागतस्य च निन्यत्वं प्रागेव दर्शितम् । न च काम्याधिकारनित्याधिकारयो- रेकशास्त्रार्थत्वं यावज्जीवाधिकरणविरोधात् । तद्यदि फलार्थितथा कन्यासम्बन्धरहित एव श्राद्धं कृतं तथापि कन्यायामवश्यं कर्त्तव्यम् । वस्तुतस्तु श्राद्धभेदे विधिगौरवापत्तेः कन्यागतश्राय एव फलार्थितया पञ्चम- पक्षाख्यगुणफनविधिः तदा केवलं भ्रमपक्षे श्राद्ध- मसङ्गतमेव “कन्यां गच्छतु वा नवेति” पञ्चमपक्षस्तुत्यर्थं न तु कन्यासम्बन्धाभावेऽपि श्राद्धविधानपरं प्राप्ते कन्या- गतश्राद्धे गुणफलविधित्वात् तदसङ्गतं ब्रह्मपुराणे “पौर्णमास्यन्तमासेनैव समस्ततिथिकृत्याभिधानात् अश्वयुक् शब्दस्यापि पौर्णमास्यान्तपरत्वात् न सौराश्विनपरत्वम् “आश्वयुज्यां तु कृष्णायां त्रयोदश्यां मघासु च” इति ब्रह्मपुराण एव अश्वयुक्शब्दस्यापि पौर्णमास्यन्तपरत्वावधा- रणाच्च पौर्णमास्यन्ताश्विन एव मघा त्रयोदशी भवति न दर्शान्ते, लक्षणा च सौरेऽप्यविशिष्टा । अतएव न मुख्य- त्वाय दर्शान्तपरतापि क्लप्ततात्पर्य्यानुपपत्त्या लक्षणायां धान्यमस्यधिकरणे दर्शितत्वात् । इदन्तु उच्यते उक्तयुक्तेः पौर्णमास्यान्ताश्विनपरत्वे कन्यानिरपेक्षपञ्चमपक्षे पक्षश्रा- द्धादिकल्पा नित्यतयाऽवगम्यन्ते न कन्याविशिष्टा निरपेक्ष- श्रुतेः अत एव न गुणफलविधिः । अत एव कन्यासम्बन्धा- नुद्भेदेनैव प्रौष्ठपद्यूर्ध्वं पञ्चमपक्षे कृष्णपक्षश्राद्धादिकं दर्श- यति विष्णुधर्मोत्तरप्रथमकाण्डम् “उत्तरादयनात् श्राद्धे श्रेष्ठं स्यात् दक्षिणायनम् । चातुर्मास्यञ्च तत्रापि प्रसुप्ते केशवे हितम् । प्रौष्ठपद्याः परः पक्षस्तत्रापि च विशेषतः । पञ्चम्यूर्द्धञ्च तत्रापि दशम्यूर्ध्वमतोऽप्यति । मघा युक्ता च तत्रापि शस्ता राजंस्त्रयोदशी । तत्राक्षयं भवेत् श्राद्धं मधुना पायसेन तु । सर्वस्वेनावि कर्त्तव्यं श्राद्धमत्र नराधिप! । परान्नभोजी त्वपचः श्राद्धमत्र तु कारयेत्” । यानि च कन्याविषयाणि वचनानि तानि पञ्चमपक्षानपेक्षश्राद्धान्तरविधायकान्येव । कन्या प्रौष्ठपद्यूर्द्ध्वपञ्चमपक्षसमुच्चयेऽपि कन्थागतस्यापि श्राद्धस्य नित्यत्वेनावगम्यमानस्य तन्त्रादेव सिद्धेर्न पृथक्करणम् । यदा न कन्यासमुच्चयस्तदा कन्यायामपि नित्यत्वात् कर्त्त व्यमेव परन्तु पक्षश्राद्धादिकल्पेषु प्राभाणाभावात् सकृत्- कृते कृतः शास्त्रार्थ इति न्यायात् सकृदेव श्राद्धं कर्त्त- व्यम् न अधिमासपाते तत्र श्राद्धं न कर्त्तव्य यथा लघु- हारीतः “सपिण्डीकरणादूर्द्ध्वं यत्किञ्चित् श्राद्धिकं भ- वेत् । इष्टं वाप्यथ वा पूर्त्तं तन्न कुर्य्यान्मलिम्लुचे” । एवमधिमासदोषेणापाटवादिना च तत्र श्राद्धाकरणे तु- लायां कर्त्तव्यतामाहं ब्रह्मपुराणे “यावच्च कन्यातुलयोः कमादास्ते दिवाकरः । तावत् श्राद्धस्य कालः स्यात् शून्यं प्रेतपुरं तदा” । अत्र कन्यातुलयोर्दिवाकरावस्थितेः क्रमादेव प्राप्तत्वात् क्रमात् श्राद्धस्य कालः स्वादित्यम्बयः मुख्यकल्पामुकल्पभावेनेत्यर्थः । यस्य या मृततिथिस्तस्य प्रेतपक्षे तत्सजातीयतिथिः पौर्णमासीमृतस्य तु प्रौष्ठपद्येव पार्वणश्राद्धकालः इति हेमाद्रिप्रभृतिव्यवस्थेति पाश्चात्त्यदक्षिणात्यानां तथा- चारः । प्रा० वि० तन्मूलव बनानाममूलकत्वमुक्तमतोवङ्गानां न तथाचार इति बोध्यम् । अधिकमपरपक्षशब्दे २३१ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

प्रेतपक्षः || पुं, (प्रेतप्रियः पक्षः ।)
गौणचान्द्रा- श्विनकृष्णपक्षः । तत्र मृतस्य पार्व्वणविधिना र्सावत्सरिकं श्राद्ध्वं कर्त्तव्यम् । यथा, —
“आषाढ्याः पञ्चमे पक्षे कन्यासंस्थे दिवाकरे । यो वै श्राद्धं नरः कुर्य्यादेकस्मिन्नपि वासरे ॥ तस्य संवत्सरं यावत्तृप्ताः स्युः पितरो ध्रुवम् ॥ नभा वाथ नभस्यो वा मलमासो यदा भवेत् । सप्तमः पितृपक्षः स्यादन्यत्रैव तु पञ्चमः ॥” इति । तत्र मृतस्य । “सपिण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते । तत्र तत्र त्रयं कुर्य्याद्बर्ज्जयित्वा मृताहनि ॥ अमावास्यां क्षयो यस्य प्रेतपक्षेऽथवा पुनः । सपिण्डीकरणादूर्द्ध्वं तस्योक्तः पार्व्वणो विधिः ॥” इति शङ्खोक्तेन प्रत्याब्दिकं पार्व्वणविधिना कर्त्त- व्यम् । इति मलमासतत्त्वम् ॥ * ॥
तत्र निषिद्ध- दिनेऽपि तिलतर्पणं कर्त्तव्यम् । यथा, स्मृतिः । “तीर्थे तिथिविशेषे च गङ्गायां प्रेतपक्षके । निषिद्धेऽपि दिने कुर्य्यात् तर्पणं तिलमिश्रितम् ॥” इति च मलमासतत्त्वम् ॥



Correction: