संस्कृत-शब्दकोशः

प्रेतशौच प्रेता

प्रेतश्राद्ध

वाचस्पत्यम्

प्रेतश्राद्ध ||‍ न० प्रेतोद्देश्यकं श्राद्धम् । प्रेतोद्देश्यके आद्यश्रा- द्धादिसपिण्डीकरणान्तश्राद्धे तस्य गौणकालादि ति० त० उक्तम् यथा “मासेऽन्यस्मिन् तिथौ तस्मिन् तदा दद्या- द्विचक्षणः” । तथा श्रा० त० दर्शितं यथा “षोडशश्राद्धानां यत्पतितं कृष्णैकादश्यां तत्कर्त्तव्यम् । तथा च लघुहारीतः “श्राद्धविघ्ने समुत्पन्ने मृताहा- ऽविदिते तथा । एकादश्यां प्रकुर्वीत कृष्णपक्षे विशेषतः” । विशेषत इत्यमावस्यापेक्षया तस्यामपि विघ्नादौ विधानात् । यथा हेमाद्रिधृतं षट्त्रिंशन्मतम् “मासिके चाव्दिके त्वह्नि संप्राप्ते मृतसूतके । वदन्ति शुद्धौ तत्कार्यं दर्शे चापि विचक्षणैः” । राजमार्त्तण्डे “श्राद्धविघ्ने समुत्पन्ने अन्तरा मृतसूतके । एकादश्यां प्रकुर्वीत कृष्णपक्षे विशे षतः । श्राद्धविघ्ने समुत्पन्ने मृतस्याबिदिते तथा । अमावस्यां प्रकुर्वीत वदन्त्येके मनीषिणः” । अत्र मृतसू- तकोपदानात् ऋष्यशृङ्गवचनेऽशौचपदमेतत्परम् । यत्त्व- न्तरा मृतसूतकेऽप्येकादश्यां श्राद्धविधानं तत् “देये पितृणां श्राद्धे तु अशौचं जायते यदि । तदशौचे व्यतीते तु तेषां श्राद्धं विधीयते । शुचीभूतेन दातव्यं या तिथिः प्रतिपद्यते । सा तिथिस्तस्य कर्त्तव्या नत्वन्या वै कदा- चन” इति ऋस्यशृङ्गवचन विरोधात् अशौचान्तदिने मलमासादिरूपविघ्नान्तरेण तदकरणे । अतएव श्राद्धवि- वेके अपाटवाद्यशौचाभ्यामपि पतितमेकोद्दिष्टमेकादश्या- मशौचान्ते च मलमासे न कर्त्तव्यं किन्तु मलमासाव्या- प्रकृष्णैकादश्यामेवेत्युक्तम्” ।


शब्दकल्पद्रुमः

प्रेतश्राद्धं || क्ली (प्रेताय प्रेतोद्देश्यकं वा श्राद्धम् ।)
प्रेतोद्देश्यकश्राद्धम् । तदनुष्ठानं यथा । तत्र गोभिलः । अथैकोद्दिष्टमेकं पवित्रमेकोऽर्घ एकः पिण्डो नावाहनं नाग्नौकरणं नात्र विश्वेदेवाः स्वदितमिति तृप्तिप्रश्नः । उपतिष्ठतामित्यक्षय्य- स्थाने अभिरम्यतामिति विसर्गोऽभिरतो- ऽस्मीति प्रतिवचनमेतत् प्रेतश्राद्धमिति । इति श्राद्धतत्त्वम् ॥ * ॥
तच्च नवश्राद्धं तत्तु साग्निक- कर्त्तव्यं चतुर्थपञ्चमनवमैकादशाहेषु प्रेतश्राद्धम् । यथा यमः । “चतुर्थे पञ्चमे चैव नवमैकादशे तथा । तदत्र दीयते जन्तोस्तन्नवश्राद्धमुच्यते ॥” इति श्राद्धविवेकः ॥ * ॥
साग्निनिरग्न्युभयकर्त्तव्यं आद्यश्राद्धादिसपिण्डी- करणान्तं श्राद्धम् । यथा, —
“द्वादश प्रतिमास्यानि आद्यं षाण्मासिके तथा । सपिण्डीकरणञ्चैव इत्येतत् श्राद्धषोडशम् ॥” इति श्राद्धतत्त्वम् ॥ * ॥
अम्बुघटश्राद्धम् । तत्तु संवत्सरं यावत् प्रत्यहं प्रेतोद्देश्यकान्नजलदानरूपम् । यथा । पार- स्करः । अहरहरन्नमस्मै ब्राह्मणायोदकुम्भञ्च दद्यात् पिण्डमप्येके निगृणन्ति । ददतीत्यर्थः । इति श्राद्धविवेकः ॥ * ॥
गयादितीर्थद्रव्यादिप्राप्ति- निमित्तमेकोद्दिष्टश्राद्धम् । यथा, —
“पितृयज्ञन्तु निर्व्वर्त्त्य मासिके श्राद्ध एव तु । श्राद्धं प्रतिरुचौ चैव मातापित्रोर्मृताहनि ॥ असपिण्डीकृतं प्रेतमेकोद्दिष्टेन तर्पयेत् ॥ तेनाम्बुघटश्राद्धे मृताहविहितमासिके तथा विशिष्टतीर्थद्रव्यादिप्राप्तौ प्रेतश्राद्धकरणेच्छायां मातापित्रोर्म्मृताहनि च असपिण्डीकृतं प्रेत- मेकोद्दिष्टेन तर्पयेत् ।” इति श्राद्धतत्त्वम् ॥



Correction: