संस्कृत-शब्दकोशः

प्रेमबन्ध प्रेमालिङ्गनं

प्रेमभक्ति

वाचस्पत्यम्

प्रेमभक्ति ||‍ स्त्री प्रेम्णा भक्तिः । श्रीकृष्णे प्रेम्णा स्नेहेन भक्तौ तल्लक्षणं नारदपञ्चरात्रे उक्तं यथा “अनन्य- ममता बिष्णौ ममता प्रेमसप्लुता । भक्तिरित्युच्यते मीष्मप्रह्लादोद्धवनारदैरिति” । प्रेमभक्तेश्च माहात्म्यं भक्तेर्माहात्म्यतः परम् । सिद्धमेव यतो भक्तेः फलं प्रेमैव निश्चितम्” । तच्चिह्नानि भाग० ७ स्क० उक्तानि यथा “निशम्य कर्माणि गुणानतुल्यान् वीर्य्याणि ली- लातनुभिः कृतानि । यदाऽतिहर्षोत्पुलकाश्रुगद्गदं प्रोत्- कण्ठ उद्गायति नृत्यते च । यदा ग्रहग्रस्त इव क्वचिच्च हसति क्रन्दते ध्यायति वन्दते जनः । मुहुः श्वसन् वक्ति हरे! जगत्पते! नारायणेत्यात्ममतिर्गतत्रपः । तदा पुमान् मुक्तसमस्तबन्धनस्तद्भावभावानुशयाकृताकृतिः । निर्द- ग्धवीजानुशयो महीयसा भक्तिप्रयोगेण समेत्यधोक्षजम्” ।


शब्दकल्पद्रुमः

प्रेमभक्तिः || स्त्री (प्रेम्णा भक्तिः ।)
स्नेहयुक्त- श्रीकृष्णसेवा । विष्ण्वैकान्तिकममता । तल्लक्षणं यथा, नारदपञ्चरात्रे । “अनन्यममता विष्णौ ममता प्रेमसंप्लुता । भक्तिरित्युच्यते भीष्म ! प्रह्लादोद्धवनारदैरिति ॥ प्रेमभक्तेश्च माहात्म्यं भक्तेर्म्माहात्म्यतः परम् । सिद्धमेव यतो भक्तेः फलं प्रेमैव निश्चितम् ॥” * ॥
अथ प्रेमसम्पत्तिचिह्नानि यथा, भागवते ७ स्कन्धे ७ अध्याये श्रीप्रह्लादस्य बालानुशासने । “निशम्य कर्म्माणि गुणानतुल्यान् वीर्य्याणि लीलातनुभिः कृतानि । यदातिहर्षोत्पुलकाश्रुगद्गदं प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥ यदा ग्रहग्रस्त इव क्वचिद्धस- त्याक्रन्दते ध्यायति वन्दते जनम् । मुहुः श्वसन् वक्ति हरे जगत्पते नारायणेत्यात्ममतिर्गतत्रपः ॥ तदा पुमान् मुक्तसमस्तबन्धन- स्तद्भावभावानुकृताशयाकृतिः । निर्द्दग्धबीजानुशयो महीयसा भक्तिप्रयोगेण समेत्यधोक्षजम् ॥” इति श्रीहरिभक्तिविलासे ११ विलासः ॥



Correction: