वाचस्पत्यम्
प्रेरण || न० प्र + ईर—णिच्—ल्युट् । प्रेषणे निकृष्टस्य भृत्यादेः कार्य्यादौ नियोगे । णिच्—युच् । प्रेरणाप्यत्र स्त्री ।
शब्दकल्पद्रुमः
प्रेरणं || क्ली (प्र + ईर् + णिच् + ल्युट् ।)
प्रेषणम् । पाठान इति भाषा । यथा, नैषधे । ३ । ५५ । “धिक् चापले वत्सिमवत्सलत्वं यत्प्रेरणादुत्तरलीभवन्त्या ॥”