शब्दकल्पद्रुमः
प्रेरणा || स्त्री (प्र + ईर् + णिच् + “ण्यासश्रन्थो युच् ।” ३ । ३ । १०७ । इति युच् ।) चोदना । (यथा, मेघदूते । ७० । “ह्रीमूढानां भवति विफला प्रेरणा चूर्णमुष्टिः ॥”) फलभावना । विधिरिति यावत् । इति धर्म्म- दीपिका ॥