वाचस्पत्यम्
प्रोक्षित || त्रि० प्र + उक्ष—कर्मणि क्त । १ सिक्ते २ निहते मेदि० यज्ञार्थं संस्कृते ३ पश्वादौ च “भक्षयेत् प्रोक्षितं मांसम्” इति स्मृतिः “आरण्याः सर्वदैवत्याः प्रोक्षितः सर्वशो मृगाः । अगस्त्येन पुरा राजन्! मृगया येन पूज्यते” ति० त० ।
शब्दकल्पद्रुमः
प्रोक्षितं || त्रि (प्र + उक्ष + क्त ।)
निहतम् । सिक्तम् । इति मेदिनी । ते, १३६ ॥ यज्ञार्थं मन्त्रैः संस्कृतमांसादि । यथा, —
“भक्षयेत् प्रोक्षितं मांसं सकृद्ब्राह्मणकाम्यया । दैवे नियुक्तः श्राद्धे वा नियमे तु विवर्ज्जयेत् ॥” आरण्यानामिदानीन्तनप्रोक्षणापेक्षा नास्ति । यथा, महाभारते । “आरण्याः सर्व्वदैवत्याः प्रोक्षिताः सर्व्वशो मृगाः । अगस्त्येन पुरा राजन् ! मृगया येन पूज्यते ॥” इति तिथ्यादितत्त्वम् ॥