वाचस्पत्यम्
प्रोत्फुल्ल || त्रि० प्र + उत् + फुल्ल—विकाशे अच् । विकसिते ।
शब्दकल्पद्रुमः
प्रोत्फुल्लं || त्रि (प्रकर्षेण उत्फुल्लम् । प्र + उत् + फुल्ल विकासे + कर्त्तरि अच् वा ।)
विकसितम् । यथा, —
“ये वर्द्धिताः करिकपोलमदेन भृङ्गाः प्रोत्फुल्लपङ्कजरजःसुरभीकृताङ्गाः । ते साम्प्रतं विधिवशाद्गमयन्ति कालं निम्बेषु चार्ककुसुमेषु करीलकेषु ॥” इति भामिनीविलासः ॥