शब्दकल्पद्रुमः
प्रोत्साहः || पुं, (प्र + उत् + सह + घञ् ।)
प्रकृ- ष्टोत्साहः । “कर्म्मसु सुकरप्रत्यय उत्साह इति मधुः ॥ कर्म्मसु दृढयत्नकारको भावः उत्साह इति रमानाथः ॥ कर्म्मसु प्रत्यय उत्साह इति नयनानन्दः । अशक्ये बलोद्यम उत्साह । इति केचित् ।” इत्यमरटीकायां भरतः ॥ (यथा, कथासरित्सागरे । १६ । ९७ । “सोऽस्याः प्रोत्साहविश्लेषदुःखं यावद्व्यपो- हति । तावत् पद्मावतीपार्श्वं प्रययुस्ते महत्तराः ॥”)