वाचस्पत्यम्
प्रो(प्रौ)ष्ठपदा || स्त्री प्रो(प्रौ)ष्ठो गौस्तस्येव पदं यस्याः । नक्षत्रविशेषे । तद्युक्ता पौर्णमासी अण् सा यत्र मासे पुनरण् वा न दद्विः । १ चान्द्रभाद्रमासे अमरः । प्रोष्ठ- पदासु जातः अण् उत्तरपदवृद्धिः । प्रोष्ठपाद तज्जे ३ माणवके । “जे प्रोष्ठपदानाम्” पा० उक्तेः भवादौ नोत्तरपदवृद्धिः प्रौष्ठपद इत्येव । २ अश्विन्यादिषु पञ्चविंशषड्विंशनक्षत्रयोः स्त्री ब० व० पूर्वोत्तरभाद्रपदयोः प्रत्येकं द्वित्वेन चतुष्कत्वात् बहुत्वम् । प्रोष्ठपदाभिर्युक्ता पौर्णमासी अण् । प्रौष्ठपदी चान्द्र- ३ भाद्रपौर्णमास्यां स्त्री ङीप् “प्रौष्ठपद्यामतीतायाम्” । प्रेतशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
प्रोष्ठपदाः || स्त्री (प्रोष्ठो गौस्तस्येव पादा यासाम् । “सुप्रातसुश्वेति ।” ५ । ४ । १२० । इति बहु- व्रीहावच् पद्भावश्च निपातितः ।)
पूर्ब्बभाद्रपद- नक्षत्रम् २५ । उत्तरभाद्रपदनक्षत्रम् २६ । तत्पर्य्यायः । भाद्रपदाः २ । इत्यमरः । १ । ३ । २२ ॥ द्बे पूर्ब्बभाद्रपदोत्तरभाद्रपदासु प्रोष्ठो गौः भद्रश्च गौः तस्येव पाद आसां तास्तथा । पूर्ब्बे प्रोष्ठपदे द्वे उत्तरे तु भाद्रपदे द्बे समुदायश्चासां चतुःसंख्य इति बहुवचनम् । कदा पूर्ब्बे प्रोष्ठ- पदे कदा उत्तरे प्रोष्ठप्रदे इति तारकयोर्द्वित्वा- द्द्विवचनम् । इति भरतः ॥ भाद्रपदशब्देन तारकाविशेषाणां समुदाय उच्यते तिरोहिता- वयवभेदपक्षे एकवचनम् । प्रोष्ठपदाशब्दस्तू- द्रिक्तावयवभेदपक्षे बहुवचनमिति मैत्रेयः । इति रायमुकुटः ॥