वाचस्पत्यम्
प्रौढ is an alternate of प्रोढ. प्रो(प्रौ)ढ || त्रि० प्र + वह—क्त वा वृद्धिः । १ वृद्धे अमरः २ प्रग- ल्भे हेमच० ३ निपुणे राजनि० । ४ प्रकर्षेण ऊढे च । स्त्रियां टाप् । सा च ५ नायिकाभेदे नायिकाशब्दे ४०४२ पृ० दृश्यम् । “त्रिंशद्वर्षादूर्ध्वं पञ्च पञ्चाशद्वर्षप- र्यन्तं प्रौढावस्था यथा “आ षोढशात् भवेद्वाला तरुणी त्रिंशता मता । पञ्चपञ्चाशता प्रौढा भवेद्वृद्धा ततःप- रम्” । अस्या वश्यत्वकारणं यथा “अलङ्कारादिभिर्बाला तरुणी रतियोगतः । प्रेमदानादिभिः प्रौढा वृद्धा च दृदताडनात्” । तस्या रमणे दोषो यथा “बाला तु प्राणदा प्रोक्ता तरुणी प्राणहारिणी । प्रौढा करोति वृद्धत्वं वृद्धा मरणदा भवेद्” रतिम० । चत्वारिंशद्वर्णयुक्ते ६ मन्त्रे “षोडशार्णो युवा प्रौढश्चत्वारिंशल्लिपिर्मनुः” तन्त्रसा० । “अर्थवद् ग्रहणेनार्थकस्येति” परिभाषया ऊढेः पृथग्ग्रहणाद्वा क्त वति न वृद्धिः किन्तु यथाह तत्र प्रोढवान् इत्येव ।
शब्दकल्पद्रुमः
प्रौढं || त्रि (प्रोह्यते स्मेति । प्र + वह् + क्तः । सम्प्र- सारणम् । “प्रादूहोढोढ्येषैष्येषु ।” इति वृद्धिः ।)
वर्द्धितम् । तत्पर्य्यायः । प्रवृद्धम् २ एधितम् ३ । इत्यमरः । ३ । १ । ७६ ॥ (यथा, मेघदूते । २७ । “त्वत्सम्पर्कात् पुलकितमिव प्रौढपुष्पैः कदम्बैः ॥”)
प्रगल्भः । इति हेमचन्द्रः । ६ । १३१ ॥ (यथा, रघुः । ९ । ५८ । “त्रासातिमात्रचटुलैः स्मरतः सुनेत्रैः प्रौढप्रिया नयनविभ्रमचेष्टितानि ॥”)
निपुणः । इति राजनिर्घण्टः ॥ (यथा, भाग- वते । ३ । २ । ९ । “ईङ्गितज्ञाः पुरुप्रौढा एकारामाश्च सात्त्वताः ॥”)
प्रकर्षेण ऊढश्च ॥