संस्कृत-शब्दकोशः

प्रौढा प्रौण

प्रौढि

वाचस्पत्यम्

प्रौढि is an alternate of प्रोढि. प्रो(प्रौ)ढि ||‍ स्त्री प्र + वह—क्तिन् वा वृद्धिः । १ सामर्थ्ये २ सामर्थ्यं हेतुके क्रियासु योग्यताध्यवसाये ३ हठोक्तौ च प्रोढिवादः ।


शब्दकल्पद्रुमः

प्रौढिः || स्त्री (प्र + वह + क्तिन् । प्रादूहेति वृद्धिः ।)
सामर्थ्यम् । इति मुग्धबोधव्याकरणम् ॥ तत्पर्य्यायः । उत्साहः २ प्रगल्भता ३ अभि- योगः ४ उद्यमः ५ उद्योगः ६ कियदेतिका ७ अध्यवसायः ८ ऊर्ज्जः ९ । इति हेमचन्द्रः । २ । २१४ ॥ (यथा, कथासरित्सागरे । १४ । ६३ । “यथा यथा च दम्पत्योः प्रौढिं परिचयो ययौ । तयोस्तथा तथा प्रेम नवीभावमिवाययौ ॥”)



Correction: