संस्कृत-शब्दकोशः

प्रौष्ठ प्रौष्ठपदा

प्रौष्ठपद

शब्दकल्पद्रुमः

प्रौष्ठपदः || पुं, (प्रोष्ठो गौस्तस्येव पादा यासामिति प्रोष्ठपदा नक्षत्रविशेषाः । तद्युक्ता पौर्णमासी । प्रोष्ठपद + “नक्षत्रेण युक्तः कालः ।” ४ । २ । ३ । इति अण् । ङीप् । प्रौष्ठपदी पौर्णमास्यस्मिन् । प्रौष्ठपदी + “सास्मिन् पौर्णमासीति ।” ४ । २ । २१ । इति अण् ।)
भाद्रमासः । इत्यमरः । १ । ३ । २२ ॥ (यथा, महाभारते । १३ । १०६ । २८ । “प्रौष्ठपदन्तु यो मासमेकाहारो भवेन्नरः । धनाढ्यं स्फीतमचलमैश्वर्य्यं प्रतिपद्यते ॥” प्रोष्ठपदासु भवे, त्रि । इति सिद्धान्तकौमुदी । ७ । ३ । १८ ॥)



Correction: