वाचस्पत्यम्
प्रौष्ठपदा is an alternate of प्रोष्ठपदा. प्रो(प्रौ)ष्ठपदा || स्त्री प्रो(प्रौ)ष्ठो गौस्तस्येव पदं यस्याः । नक्षत्रविशेषे । तद्युक्ता पौर्णमासी अण् सा यत्र मासे पुनरण् वा न दद्विः । १ चान्द्रभाद्रमासे अमरः । प्रोष्ठ- पदासु जातः अण् उत्तरपदवृद्धिः । प्रोष्ठपाद तज्जे ३ माणवके । “जे प्रोष्ठपदानाम्” पा० उक्तेः भवादौ नोत्तरपदवृद्धिः प्रौष्ठपद इत्येव । २ अश्विन्यादिषु पञ्चविंशषड्विंशनक्षत्रयोः स्त्री ब० व० पूर्वोत्तरभाद्रपदयोः प्रत्येकं द्वित्वेन चतुष्कत्वात् बहुत्वम् । प्रोष्ठपदाभिर्युक्ता पौर्णमासी अण् । प्रौष्ठपदी चान्द्र- ३ भाद्रपौर्णमास्यां स्त्री ङीप् “प्रौष्ठपद्यामतीतायाम्” । प्रेतशब्दे दृश्यम् ।