वाचस्पत्यम्
प्लवग || पु० प्लवन् सन् गच्छति गम—ड नि० । १ वानरे २ भेके ३ सूर्य्यसरथौ मेदि० ४ प्लवस्ंज्ञखगे शब्दर० । ५ शिरीष- वृक्षे राजनि० ।
शब्दकल्पद्रुमः
प्लवगः || पुं, (प्लवेन प्लुतगत्या गच्छतीति । गम् + “अन्येष्वपि दृश्यते ।” ३ । २ । १०१ । इति डः ।)
वानरः । (यथा, रघुवंशे । १२ । ७० । “स सेतुं बन्धयामास प्लवगैर्लवणाम्भसि । रसातलादिवोन्मग्नं शेषं स्वप्नाय शार्ङ्गिनः ॥”)
भेकः । सूर्य्यसारथिः । इति मेदिनी । गे, ४२ ॥ प्लवपक्षी । इति शब्दरत्नावली ॥ शिरीषवृक्षः । इति राजनिर्घण्टः ॥