वाचस्पत्यम्
प्लवगति || पु० प्लवेन गतिरस्य । १ भेके शब्दच० । ६ त० । प्लवानां भेकानां गतौ स्त्री ।
शब्दकल्पद्रुमः
प्लवगतिः || पुं, (प्लवेन गतिर्यस्य ।) भेकः । इति शब्दचन्द्रिका ॥ (प्लवस्य भेकादेर्गतौ प्लुतगतौ च, स्त्री ॥)