वाचस्पत्यम्
प्लीहघ्न || पु० प्लीहानं हन्ति हन—क । (रोडा) दाडिमतुल्यकुसुमवति वृक्षभेदे शब्द च० ।
शब्दकल्पद्रुमः
प्लीहघ्नः || पुं, (प्लीहानं हन्तीति । हन + टक् ।)
वृक्षविशेषः । रोहडा इति ख्यातः । तत्पर्य्यायः । रोही २ रोहितकः ३ प्लीहशत्रुः ४ दाडिम- पुष्पकः ५ मांसदलनः ६ यकृद्वैरी ७ चलच्छदः ८ । इति शब्दचन्द्रिका ॥ रौहितेयः ९ रोहितः १० रोहीतकः ११ रौही १२ । इति शब्दरत्ना- वली ॥ (अस्य गुणाः रोहितकशब्दे द्रष्टव्याः ॥)