वाचस्पत्यम्
प्लोत || न० प्र + वे—क्त संप्र० रस्य लः । सुश्रुतोक्ते शस्त्रकर्मोपक- रणभेदे “अतोऽन्यतमं कर्म चिकीर्षता वैद्येन पूर्वमेवोप- कल्पयितव्यानि तद्यथा यन्त्रशस्त्रक्षाराग्निशलाका शृङ्गजलौकालाबूजाम्बबोष्ठपिचुप्लोतसूत्रपत्रपट्टमधुघृतव- सापयस्तैलतर्पणकषायालेपनकल्कव्यजनशीतोष्णोदकाक- टाहादीनि” ।