संस्कृत-शब्दकोशः

प्लोत प्सा

प्लोष

वाचस्पत्यम्

प्लोष ||‍ पु० प्लु ष—भावे घञ् । दाहे अमरः । भावे ल्युट् । प्लोषण दाहे न०


शब्दकल्पद्रुमः

प्लोषः || पुं, (प्लुष दाहे + भावे घज् ।)
दाहः । इत्यमरः । ३ । २ । ९ ॥ (यथा, श्रीकण्ठचरिते । ४ । १७ । “दरीषु किन्नरीलोकं धत्ते यः प्लोषविप्लवे । न्यासीकृतमनङ्गेन भाण्डागारमिव स्वकम् ॥” पित्तविकारविशेषः । तद्यथा । “पित्तविकारा- श्चत्वारिंशदत ऊर्द्ध्वं व्याख्यास्यन्ते । तद्यथा ओषश्च प्लोषश्च दाहश्च दवथुश्च धूमकश्चाम्लकश्च इत्यादिषु ॥” इति चरके सूत्रस्थाने विंशेऽध्याये ॥)



Correction: