संस्कृत-शब्दकोशः

प्सु फ

प्सुर

वाचस्पत्यम्

प्सुर ||‍ त्रि० प्सु + बा० अस्त्यर्थे र । रूपवति ऋ० १० । २६ । ३ भाष्ये इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यसंकलिते वाचस्पत्ये पकारादिशब्दार्थसङ्कलनम् । पकारादिषु शब्देषु केचित् शब्दा न सङ्कांलता केषाञ्चिच्चार्थभेदा भ्रमान्नोक्तास्ते इतःपरं परिशिष्टे प्रदर्श्यन्ते । परिशिष्टम् ४२२५ पृष्ठस्थपद्मशब्दपरिशिष्टम् ||‍“अष्टकासु भवेत् पद्म तत्र दत्तं तथाऽक्षयम्” हेमा० श्रा० जातूकर्ण्योक्ते १५ अष्टकाश्राद्धे । ||‍४२२५ पृष्ठस्थ पद्मकशब्दपरिशिष्टम् “यदा विष्टिर्व्यतीपातो भानुवारस्तथैव च । पद्मकं नाम तत्प्रोक्तमयनाच्च चतुर्गुणम्” हेमा० श्रा० शङ्खोक्ते श्राद्ध- ५ कालभेदे न० । ||‍४३१४ पृ० पारावतशब्दस्य परिशिष्टम् सर्वार्थचिन्तामण्युक्ते क्षेत्रहोरादृक्काणादिदशवर्गमध्ये येषु केषु चित् षट्सु शुभांशेषु । प्रसङ्गात् क्षेत्रादिदशवर्ग- निरूपणेन तत्र द्वित्रादिवर्गे एकैकस्य योये नव विशेष- संज्ञाः तत्फलञ्च तत्रोक्तं प्रदर्श्यते तत क्षेत्रशब्दे क्षेत्रपतय उक्ताः दृक्काणाद्यधीश्वराः सर्वार्थ० उक्ता यथा “राशिं त्रिधाकृत्य दृक्काणमाहुस्तदीश १ पुत्रेश २ शुभाधि- नाथाः ९ । युजीन्दुसूर्य्यौ भवने रवीन्दू नाथौ त्वयुग्मे भवनस्य चार्द्धे । चरेऽंशकानामधिपात्तदंशा राशौ स्थिरे तन्नवमेश्वराद्यः । द्विदेहभे तत्सुतराशिनाथाद्वदन्ति शास्त्रार्थविदो महान्तः । तत् क्षेत्रपा द्वादशभागनाथा लग्नस्य वर्गाधिपतिस्तदीशात् । त्रिशांशपा भौमशनीज्य सौम्यशुक्रा भवन्त्योजगृहे समे तु । विलोमतः पञ्चश- राष्टसप्तबाणाः क्रमादूचुरनेकशास्त्रैः । सप्तांशपास्त्वोज- गृहे तदीशाद्युग्मे गृहे सप्तमराशिपात्तु । दशांशपा- नामधिपास्तदीशादोजे समे तन्नवमेश्वराद्याः । अओजे १५ कलानामधिपास्तदीशाश्चतुर्मुखो (अंश) विष्णु ४५ हरौ दिनेशः ५० । युग्मे क्रमाद्व्यत्ययमेव राशौ षष्ठ्यंश ३० काना- मधिपास्त्वयुग्भे । घोरांशको १ राक्षस २ देवभागौ ३ कुबेर ४ रक्षोगण ५ किन्नरांशाः ६ । भ्रष्टः ७ कुलघ्नो ८ गरला ९ ग्नि संज्ञौ १० मायांशकः ११ प्रेतपुरीशभागः १२ । अपां पति- १३ र्देवगणेशभागः १४ काला १५ ऽहिभागा १६ वमृतांशु १७ चन्द्रौ १८ । मृद्वंशकः १९ कोमल २० पद्मभागौ २१ ल क्ष्मोश २२ वागीश २३ दिगम्बरांशाः २४ । देवाद्रभागौ २५ २६ । कलिनाशभागः २७ क्षितोरश्वांशः २८ कमलाकरांशः २९ । क्रमेण मन्दात्मज ३० मृत्यु ३१ काल ३२ दा- वाग्निधोराऽ ३४ मय ३५ कण्टकांश्च ३६ । सुधामृतांशुः ३८ परिपूर्णचन्द्र ३९ विषप्रदग्धो ४० कलिनाश ४१ मुख्यौ ४२ । वंशक्षयोत्पातककालरूपाः ४३ । ४४ । ४५ सौम्य ४६ श्च मृद्वंश ४७ सुशीतलांशू ४८ । दंष्ट्रा ४९ कराले ५० न्दुमुख ५१ प्रवीणाः ५२ कालाग्नि ५३ दण्डायुध ५४ निर्मलांशाः ५५ । शुभाशु- भांशा ५६ । ५७ वतिशीतलांशः ५८ सुधापयोधिभ्रमणेन्द- रेखाः ५९ । ६० । ज्ञेयाः क्रमाद्व्यत्ययमेव युग्मे शुभान्वि- तांशो यदि शोभनाप्तिः । क्रूराः षष्ठ्यंश (३०) गाः सर्वे नाशयन्ति खचारिणः । परिपूर्णवलैर्युक्ता स्वोच्चमूलत्रि- कोणगाः । स्वर्क्षकेन्द्रोत्तमांशस्था मित्रक्षेत्रत्रिकोणगाः । सप्तवर्गोद्भवाः स्वांशाः स्वाधिमित्रांशकान्विताः । वर्गास्तु ये दश प्रोक्ताः पूर्वाचार्यैर्महर्षिभिः । भवन्ति वर्गसंयोगे पारिजातादिसंज्ञकाः १० दुःस्थारिनीचमूढस्था ग्नहा बल- विवर्जिताः । मरणाविस्थगाश्चेत्तु पारिजातादिनाश- काः” । अयं पक्षो नादरणीयः । मुख्यपक्षतु स्वत्र्यंशे स्वनवांशके स्वभवन इति ग्राह्याः । “उत्तमं १ तु त्रिवर्गेक्यं चतुर्वर्गन्तु गोपुरम्२ । वर्गपञ्चकसंयोगे सिंहासन ३ मिहो- च्यते । वर्गद्वयं पारिजातः ४ षण्णां पारावतांशकः ५ । सप्तमं देवलोकः ६ स्यादष्टमं च तथा भवेत् । ऐरावतं ९ तु नवमं फलं तेषां पृथक् पृथक् । दशवर्गस्य संयोगे विदुर्वेशेषिकां- शकान् १० । ऐरावते सार्वभौमः सर्वैश्वर्य्यसमन्वितः । देव- लोके ६ महादानकर्त्ता राजा क्षितीश्वरः । पारावते ५” मा- तुलिकः सर्वशास्त्रविशारदः । सिंहासने ३ भयेद्भूमिपतिः सर्वैः स्तुतो महान् । गोपुरे२ धनवान्नित्यं सर्बविद्याविशा- रदः । उत्तमे १ सकला सम्पत् पारिजाते ४ धनान्वितः । स्वांशे १० यशस्वी मतिमान् सर्वसौख्यसमन्वितः” । ||‍४३२८ पृ० पिण्डशब्दपरिशिष्टम् । तत्र संहतश्च एकीकृतः यथा “षण्मनूर्नां तु संपिण्ड्य कालं तत्सन्धिमिः सह” सू० सि० व्याख्याने “संपिण्ड्य एकी- कृत्य रङ्गनाथः । संपिण्डं मिश्रितं पिलितं कृत्वेत्यर्थः । तथा च अहर्गणानयने प्रथममव्दानां दृन्दमेकत्र कार्य- मिति बोध्यम् । केरलशब्दे २२४१ पृ० पश्नमगोरमान- र्शिते “वर्गवर्णप्रमाणञ्च सस्वरं ताडितं निथः । पिण्ड- संज्ञा भवेत् तस्य यथाभागैस्तु कल्पना” इत्युक्ते २१ पदार्थे च । १३३४ पृ० पितृपक्षशब्दपरिशिष्टम् गौणाश्विनकृष्णपक्षे ४ प्रेतपक्षे तच्छब्दे दृश्यम् । ४३३६ पृष्ठख्यपित्तलशब्दपरिशिष्टम् । सुश्रुतोक्ते योगिरोगभेदे स्त्री स्वीणां ५ योगिरोगा विंश- तिविधा उदावर्त्तशब्दे ११६३ पृ० सुश्रुतोक्ता दर्शिताः। तेषां लक्षणान्यत्रोच्यन्ते “सफेमिलमुदावर्त्ता रजःकृच्छ्रेण मुच्चति । बन्ध्यां नष्टार्त्तवां विद्याद्विप्लुतां२नित्यवेदनाम् । परिप्लुतायां ४ भवति ग्राम्यधर्मे रुजा भृशम् । वातला ५ कर्कशत्वक्वा शूलनिस्तोदपीडिता । चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः । सदाहं प्रकिरत्यस्रं यस्याः सा लो- हितक्षरा ६ । सवातमुद्गिरेद्वीजं बामिनी ७ रजसा युतम् । प्रसंसिनी ८ स्पन्दते तु क्षोभिता दुःप्रसूश्च या । स्थितं स्थितं हन्ति गर्भं पुत्रव्नी ९ रक्तसंस्रवात् । अत्यर्थं पित्तला १० योनिर्दाहपाकज्वरान्विता । चतसृष्वपि चाद्यासु पित्तलि- ङ्गोच्छ्रयो भवेत् । अत्यानन्दा ११ न सन्तोषं ग्राम्यधर्मेण गच्छति कर्णिन्यां १२ कर्णिका योनौ श्लेष्मासृग्भ्यान्तु जायते । मैथुनाचराणात् पूर्वा १३ पुरुषादतिरिच्यते । बहुशश्चातिचरणादन्या १४ वीजं न विन्दति । श्लेष्मला १५ पिच्छिला योनिः कण्डूयुक्तातिशीतला । चतसृस्वपि चाद्यासु श्लेष्मलिङ्गोच्छ्रितिर्भवेत् । अनार्त्तवस्तना षण्डी १६ खरस्पर्शा च मैथुने । अतिकायगृहीतायास्तरुण्याः फलिनी १७ भवेत् । विवृता महती १८ योनिः सृचीवक्त्रा १९ ऽतिसंवृता । सर्वलिङ्गसमुत्थाना सर्वदोषप्रकोपजा २० । चतसृष्वपि चाद्यासु सर्वलिङ्गोच्छ्रितिर्भवेत्” । ४३३९ पृ० पिष्टपचनशब्दात् परत्र परिशिष्टम्



Correction: