वाचस्पत्यम्
फ || न० फक्क—ड । १ रूक्षकथने २ निष्फलवाक्ये ३ फुत्कारे च मेदि० ४ झञ्झावाते ५ बर्द्धके ६ जृम्भाविष्कारे ७ फल- भागे च पु० विश्वः ।
वाचस्पत्यम्
फ || फकारः पञ्चमवर्गस्य द्वितीयवर्णः स्पर्शवर्णेषु द्वाविंशतितमः । अस्योच्चारणस्य स्थानमोष्ठौ तस्योच्चारणे आभ्यन्तरः प्रयत्नः जिह्वाग्रस्य ओष्ठाभ्यां सह स्पर्शः अतएवास्य स्पर्श- वर्णता । बाह्याः प्रयत्नाः विवारश्वासाघोषाः महा- प्राणश्च । अस्मिन् परे विसर्गस्य स्थाने उपाध्मानीयः ँ । तन्त्रे वर्णाभिधाने अस्य वाचकशब्दा उक्ता यथा “फः सुखी दुर्गिणी धूम्रा वामपार्श्वो जनार्दनः । जया पादशिखा रौद्री फेत्कारः शाखिनी प्रियः । इला विहङ्गमः कण्ठः कुब्जिनी प्रियपावकौ । प्रलयाग्निर्नीलपादोऽक्षरः पशुपतिः शशी । फुत्कारो यामिनी झञ्झापवनो मोहवर्द्धनः । निष्फलुवागह- ङ्कारः प्रयाणो ग्रामणी फलम्” । तदीशदेवताध्यानं यथा “प्रलयाम्बुदवर्णाभां ललज्जिह्वां चतुर्भुजाम् । भक्ताभयप्रदां नित्यां नानालङ्कारभूषिताम् । एवं ध्यात्वा फकारन्तु तन्मन्त्रं दशधा जपेत्” वर्णोद्धारतन्त्रम् । अस्य ध्येयस्वरूपं यथा “फकारं शृणु चार्वङ्गि! रक्त विद्युल्लतोपमम् । चतुर्वर्गप्रदं वरणं पञ्चदेवमयं सदा । पञ्चप्राणमयं वर्णं सदा त्रिगुणसंयुतम् । आत्मादितत्त्व संयुक्तं त्रिविन्दुसहितं सदा” कामधेनुतन्त्रम् । मात्रका- न्यास्येऽस्य वामपार्श्वे न्यासः । काव्यादावस्य प्रथम- विन्यासफलं पकारशब्दे उक्तं दृश्यम् ।
शब्दकल्पद्रुमः
फं || क्ली (फक्व असद्व्यवहारे + डः ।)
रूक्षोक्तिः । फुत्कृतिः । निष्फलभाषणम् । इति मेदिनी । फे, १ ॥
शब्दकल्पद्रुमः
फः || पुं, यक्षसाधनम् । स्फानम् । झञ्झावातः । इति मेदिनी । फे, १ ॥ वर्द्धकः । जृम्भानिष्फारः । स्फुटः । फललाभः । इति विश्वः ॥ संज्ञाविशेषः । यथा । “हसोऽन्तः फः । हसो विरामश्च फसंज्ञः स्यात् ।” इति मुग्धबोधव्याकरणम् ॥
शब्दकल्पद्रुमः
फ || फकारः । द्वाविंशतितमव्यञ्जनवर्णः । (पवर्गस्य द्बितीयवर्णश्च ।)
अस्योच्चारणस्थानं ओष्ठः । इति व्याकरणम् ॥ (यदुक्तं सिद्धान्तकौमुद्याम् । “उपूपध्मानीयानामोष्ठौ ॥”)
तस्य तत्त्वं यथा, —
“फकारं शृणु चार्व्वङ्गि । रक्तविद्यल्लतोपमम् । चतुर्व्वर्गप्रदं वर्णं पञ्चदेवमयं सदा ॥ पञ्चप्राणमयं वर्णं सदा त्रिगुणसंयुतम् । आत्मादितत्त्वसंयुक्तं त्रिबिन्दुसहितं सदा ॥” इति कामधेनुतन्त्रे पञ्चमपटकः ॥ * ॥
“वक्रा वामगता रेखा ततोऽधःसङ्गता भवेत् । तस्मादूर्द्ध्वगता भूत्वा दक्षमारभ्य कुण्डली ॥ ब्रह्मा रुद्रश्च विष्णुश्च कुण्डली ब्रह्मरूपिणी । मात्रा वामाद्दक्षिणतः क्रमशः परिकीर्त्तिता ॥” इति वर्णोद्धारतन्त्रम् ॥ तत्पर्य्यायः । “फकारश्च महेशानि ! शिखी चैव जनार्द्दनः ॥” इति रुद्रयामलोक्तवर्णाभिधानम् ॥ अस्य ध्यानं यथा, —
“प्रलयाम्बुदवर्णाभां ललज्जिह्वां चतुर्भुजाम् । भक्ताभयप्रदां नित्यां नानालङ्कारभूषिताम् ॥ एवं ध्यात्वा फकारन्तु तन्मन्त्रं दशधा जपेत् ॥” इति वर्णोद्धारतन्त्रम् ॥ * ॥
अस्य नामानि यथा, —
“फः सखी दुर्गिणी धूम्रा वामपार्श्वो जनार्द्दनः । जया पादः शिखा रौद्री फेत्कारः शाखिनी- प्रियः ॥ उमा विहङ्गमः कालः कुब्जिनीप्रियपावकौ । प्रलयाग्निर्नीलपादोऽक्षरः पशुपतिः शशी ॥ फुत्कारो यामिनी व्यक्ता पावनो मोहवर्द्धनः । निष्फलवागहङ्कारः प्रयागो ग्रामणीः फलम् ॥” इति नानातन्त्रशास्त्रम् ॥ (पद्यादौ अस्य प्रयोगेन भयसम्भावना । यदुक्तं वृत्तरत्नाकरटीकायाम् । “दोधः सौख्यं मुदं नः सुखभयमरणक्लेशदुःखं पवर्गः ॥”)