संस्कृत-शब्दकोशः

फक्क फगुन

फक्किका

वाचस्पत्यम्

फक्किका ||‍ स्त्री फक्क—धातुनिर्देशे भावे ण्वुल्—टाप् अतै- त्त्वम् । १ असद्व्यवहारे (फाँकि) २ तत्त्वनिर्णयार्थं पूर्वपक्षे च “फणिभाषितभाष्यफक्किका” इति नैषधम् ।


शब्दकल्पद्रुमः

फक्किका || स्त्री (फक्व + “धात्वर्थनिर्द्देशे ण्वुल् वक्तव्यः ।” इति वार्त्तिकोक्त्या ण्वुल् । टापि अत इत्वम् ।)
असद्व्यवहारः । फाकि इति भाषा । तत्पर्य्यायः । चोद्यम् २ देश्यम् ३ पूर्ब्बपक्षः ४ । इति शब्दरत्नावली ॥ (यथा, नैषधे । २ । ९५ । “फणिभाषितभाष्यफक्विका विषमा कुण्डलनामवापिता ॥”)
न्यायसम्बन्धिव्याख्या । यथा, —
“श्रीमता मथुरानाथतर्कवागीशधीमता । विषदीकृत्य दर्श्यन्ते द्वितीयमणिफक्विकाः ॥” इत्यनुमानखण्डटीकारम्भे मथुरानाथः ॥



Correction: