संस्कृत-शब्दकोशः

फर्बर फलक

फल

वाचस्पत्यम्

फल ||‍ गतौ भ्वा० पर० सक० सेट् । फलति अफालीत् । ज्वला० कर्त्तरि वा ण । फलः फालः । फलयति फालयति ।


वाचस्पत्यम्

फल ||‍ न० फल—अच् । १ वृक्षादीनां शस्ये २ लाभे ३ फलके (ढाल) ४ कर्ये ५ उद्देश्ये ६ प्रयोजने अमरः ७ जातीफले ८ त्रिफ- लायां ९ कक्कोले मेदि० १० बाणाग्रे ११ आर्त्तवे शब्दर० १२ फाले हेम० १३ दाने धर० । १४ मुष्के च । १५ कुटजवृक्षे पु० शब्दर० । १६ धात्वर्थनिष्पाद्ये प्रधानोद्देशे प्रयोजने “स्वरितञित आत्मनेपदं कर्त्त्रभिप्राये क्रियाफले” पा० । “यस्यार्थस्य प्रसि- द्ध्यर्थमारभ्यन्ते पचादयः । तत् प्रधानं फलं तेषां न ला- भादि प्रयोजनम्” हरिः । तेन पाकादिजन्यं भोजनं या- गादिजन्यञ्च पुण्यमेव फलम् । न वेतनादिलाभरूपं फलं तेन सूदकस्य ऋत्विगादेर्वा न धात्वर्थजन्यफभागित्वम् । धात्वर्थजन्ये १७ संयोगादौ च “फलव्यापारयोर्घातुराश्रये तु तिङः स्मृताः । फले प्रधानं व्यापारस्तिङर्थस्तु विशेष- णम्” हरिः । धात्वर्थशब्दे दृश्यम् । गौतमोक्ते १८ प्रमे- यभेदे तल्लक्षणञ्च तत्रोक्तं यथा ||‍“आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुः- खापवर्गास्तु प्रमेयम” गौ० सू० उद्दिश्य “प्रवृत्तिदोषजनितो- ऽर्थः फलम्” गौ० सू० । “सुखदुःखसंबेदनं फलम् सुखविपाकं कर्म दुःखविपाकञ्च तत् पुनर्देहेन्द्रियविषय- बुद्धिषु सतीषु भवतीति सह देहादिभिः फलमभिप्रेतम् तथा हि प्रवृत्तिदोषजनितोऽर्थः फलमेतत् सर्वं भवति तदेतत् फलमुपात्तमुपात्तं हेयं, त्यक्तं त्यक्तमुपादेयमिति नास्य हानोपादानयोर्निष्ठा, पर्य्यवसानं वाऽस्ति स खल्वयं फलस्य हानोपादानस्त्रोतसोद्व्यते लोक इति” वात्स्या० । “अनिष्टमिष्टं मिश्रञ्च त्रिविधं कर्मणः फलम् । मवत्य- त्यागिनां प्रेत्य न तु सन्त्यासिनां क्वचित्” गीता । लवणादिसंयोगे फलस्यान्नसमत्वं यथा “तण्डूलोऽम्बग्नि- संयोगाछवणेन च पिष्टकम् । फलं त्रितयसंयोगादन्नं भवति तत्क्षणात्” रामार्चनचन्द्रिकाधृतवचनम् १९ निष्पन्ने त्रि० ।


वाचस्पत्यम्

फल ||‍ निष्पत्तौ भ्वा० पर० अक० सेट् । फलति अफालीत् । पफाल फेलतुः । क्त कलितः ।


वाचस्पत्यम्

फल ||‍ भेदने म्बा० पर० सक सेट् । फलति अफालीत् पफाल फेलतुः आदित् आरम्भे भावे क्त वा इट् । फुल्तः फ- लितः । फुल्तम् फलितम् अन्यत्र फलितः इत्येव । ञीत् वर्त्तमाने क्त । फलितः ।


शब्दकल्पद्रुमः

फलं || क्ली (फलतीति । फल निष्पत्तौ ञि फला विशरणे वा + अच् ।)
लाभः । (यथा, शकु- न्तलायाम् । १ अङ्के । “शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य । अथवा भवितव्यानां द्बाराणि भवन्ति सर्व्वत्र ॥”)
शस्यम् । (यथास्य भक्षणविधिः । “फलानि सर्व्वभक्ष्यांश्च प्रदद्याद्बै दलेषु च ॥” “फलानि सर्व्वभक्ष्यांश्च परिशुष्काणि यानि च । तानि दक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत् ॥” इति सुश्रुते सूत्रस्थाने । ४६ अध्यायः ॥ यथा च शकुन्तलायाम् । “उदेति पूर्ब्बं कुसुमं ततः फलं घनीदयः प्राक् तदनन्तरं पयः ॥”)
फलकम् । (शारिफलकार्थे यथा, महाभारते । ४ । १ । २४ । “वैदूर्य्यान् काञ्चनान् दान्तान् फलैर्ज्योतीरसैः सह । कृष्णाक्षान् लोहिताक्षांश्च निर्व्वत्स्यामि मनो- रमान् ॥”)
हेतुकृतम् । इत्यमरः ॥ जातीफलम् । व्युष्टिः । त्रिफला । (यथा, —
“हरीतकी चामलकी विभीतकमिदं त्रयम् । त्रिफला फलमित्युक्तं तच्च ज्ञेयं फलत्रिकम् ॥” इति वैद्यकपरिभाषायाम् ॥)
कक्कोलम् । इति मेदिनी । ले, ३३ ॥ वाणाग्रम् । आर्त्तवम् । इति शब्दरत्नावली ॥ फालः । इति हेमचन्द्रः ॥ दानम् । इति धरणिः ॥ मुष्कः । यथा, —
“अफलो भुज्यते मेषः सफलस्तु न भुज्यते ।” इति रामायणम् ॥ (प्रमेयभेदः । यथा, —
“आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्य- भावफलदुःखापवर्गास्तु प्रमेयम् ॥” इति गोतम- सूत्रम् । तत्रैव फलसूत्रम् यथा । “प्रवृत्तिदोषजनितो- ऽर्थः फलम् ॥” “सुखदुःखसंवेदनं फलम् । सुख- विपाकं कर्म्मदुःखविपाकञ्च तत् पुनर्देहेन्द्रिय- विषयबुद्धिषु सतीषु भवतीति सह देहादिभिः फलमभिप्रेतम् । तथाहि प्रवृत्तिदोषजनितो- ऽर्थः फलमेतत् सर्व्वं भवति तदेतत् फलमुपात्तमु- पात्तं हेयं त्यक्तं त्यक्तमुपादेयमिति नास्य हानोपादानयोर्निष्ठा पर्य्यवसानं वास्ति स खल्वयं हानोपादानस्रोतसोह्यते लोकः ।” इति वात्स्यायनः ॥)
जीवस्य कर्म्मफलभुक्तिर्यथा, —
“जीवः कर्म्मफलं भुङ्क्ते आत्मा निर्लिप्त एवच । आत्मनः प्रतिविम्बश्च देही जीवः स एव च ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २३ अध्यायः ॥ दानफलं यथा, —
“यथा फलन्ति शस्यानि न्यूनानि वाधिकानि च । कृषकाणां क्षेत्रभेदे पात्रभेदे फलं तथा ॥ सामान्यदिवसे विप्रे दानं समफलं भवेत् । अमायां रविसंक्रान्त्यां फलं शतगुणं भवेत् । चातुर्मास्यां पौर्णमास्यामनन्तं फलमेव च ॥ ग्रहणे शशिनः कोटिगुणञ्च फलमेव च । सूर्य्यस्य ग्रहणे चापि ततो दशगुणं भवेत् ॥ अक्षयायामक्षयञ्चैवासंख्यं फलमुच्यते । एवमन्यत्र पुण्याहे फलाधिक्यं भवेदिह ॥ यथा दाने तथा स्नाने जपेऽन्यत्पुण्यकर्म्मसु । एवं सर्व्वत्र बोद्धव्यं नराणां कर्म्मणां फलम् ॥ सामान्यदेशे दानञ्च विप्रे समफलं भवेत् । तीर्थे देवगृहे चैव फलं शतगुणं स्मृतम् ॥ गङ्गायाञ्च कोटिगुणं क्षेत्रे नारायणे फलम् । एवं सर्व्वत्र बोद्धव्यं फलाधिक्यं क्रमेण च ॥ यथा चैव कोटिगुणं तथा च विष्णुमन्दिरे । केदारे च लक्षगुणं हरिद्बारे तथा फलम् ॥ पुष्करे भास्करक्षेत्रे दशलक्षगुणं फलम् । एवं सर्व्वत्र बोद्धव्यं फलाधिक्यं क्रमेण च ॥ सामान्यब्राह्मणे दानं सममेव फलं भवेत् । लक्षं त्रिसन्ध्यपूते च पण्डिते च जितेन्द्रिये ॥ विष्णुमन्त्रोपासके च बुधे कोटिगुणं भवेत् । एवं सर्व्वत्र बोद्धव्यं फलाधिक्यं गुणं भवेत् ॥ यथा दण्डेन सूत्रेण शरावेण जवेन च । कुम्भं निर्म्माति चक्रेण कुम्भकारो मृदा भुवि । तथैव कर्म्मसूत्रेण फलं धाता ददाति च ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३४ अध्यायः ॥ * ॥
स्वप्रियफलस्य विष्णुदेयत्वम् यथा, —
“भक्ष्याणि यानि पेयानि भोज्यान्यभिमतानि च । फलञ्च वल्लभं यच्च तत्तद्देयं जनार्द्दने ॥” इत्यग्निपुराणम् ॥ * ॥
इष्टकफलद्वारा फलपातननिषेधो यथा, —
“न पातयेदिष्टकाभिः फलानि वै फलेन तु । न म्ले च्छभाषां शिक्षेत नाकर्षेच्च पदासनम् ॥” इति कौर्म्मे उपविभागे १६ अध्यायः ॥ कर्म्मजन्यशुभादृष्टदुरदृष्टसम्भवस्वर्गनरकादि । तत्त्रिविधं यथा, —
“अनिष्टमिष्टं मिश्रञ्च त्रिविधं कर्म्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ॥” इति श्रीभगवद्गीतायाम् १८ अध्यायः ॥ “अनिष्टं नारकित्वम् । इष्टं देवत्वम् । मिश्रं मनु- ष्यत्वम् । एवं त्रिविधं पापस्य पुण्यस्य उभय- मिश्रस्य च कर्म्मणो यत् फलं प्रसिद्धं तत् सर्व्व- मत्यागिनामेव प्रेत्य परत्र भवति तेषां त्रिविष- कर्म्मसम्भवात् न तु सन्न्यासिनां क्वचिदपि भवति ।” इति तट्टीकायां श्रीधरस्वामी ॥ * ॥
वेदादीनां फलम् । यथा, वह्निं प्रति मरीचि- वाक्यम् । “स तं प्राह फलं ब्रूहि वेदस्य च धनस्य च । दारश्रुतस्य विप्रादेः स्वर्गापवर्गहेतवे ॥ वह्निरुवाच । अग्निहोत्रफला वेदा दत्तमुक्तफलं धनम् । रतिपुत्त्रफला दाराः शीलवृत्तफलं श्रुतम् ॥” इति वह्निपुराणे नित्याह्निकस्नानविधिनामा- ध्यायः ॥ * ॥
लवणादिसंयोगे फलस्यान्नत्वं यथा, “तण्डुलोम्ब्वग्निसंयोगाल्लवणयोगेन पिष्टकम् । फलं त्रितयसंयोगादन्नं भवति तत्क्षणात् ॥” इति रामार्च्चनचन्द्रिकाधृतवचनमिति केचित् ॥


शब्दकल्पद्रुमः

फल || ज गतौ । इति कविकस्त्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।)
ज, फालः फलः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

फल || ञि आ भिदि । इति कविकल्पद्रुमः । (भ्वा०- पर०-सक०-सेट् ।)
ञि, फुल्लोऽस्ति । आ, फलितं फुल्तं तेन । फलति काष्ठं कुठारः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

फल || निष्पत्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-सेट् ।)
“इह नवशुककोमला मणीनां रविकरसम्बलिताः फलन्ति भासः ॥ इति भारविः ॥ निष्पादनेऽपि वाल्मीकिः । फलति स्म यस्य चरितस्तोत्राय दिव्या गिरः ॥” इति दुर्गादासः ॥


शब्दकल्पद्रुमः

फलः || पुं, (फलतोति । फल + अच् ।)
कुटज- वृक्षः । इति शब्दरत्नावली ॥ (यथा, सुश्रुते सूत्रस्थाने ४६ अध्याये । “कण्टकारिकाफलपटोलवार्त्ताकुकारवेल्लक- र्कटिकाकेबुकोरुवूकपर्प्पटककिराततिक्तकर्कोट- कारिष्टकोशातकीवेत्रकरीराटरुषकार्कपुष्पीप्र- भृतीनि ॥”)



Correction: