वाचस्पत्यम्
फलकाम || त्रि० फलं कामयते कमि—अण् उप्० स० । विहि- तकर्मणां फलकामनायुक्ते । तस्य निन्दा मल० त० विष्णु धर्मोत्तरे उक्ता यथा “धर्मबाणिजका मूढाः फलकामा नराधमाः । अर्चयन्ति जगन्नाथं ते कामं नाप्नुवन्त्युत” । “कामात्मता न प्रशस्ता” मनुना “कर्मण्येवाधिकारस्ते मा फलेषु कदाचन” गीतया च ।
शब्दकल्पद्रुमः
फलकामः || त्रि (फलं कामयते इति । कम + अण् ।)
कर्म्मफलकामी । यथा, —
“धर्म्मवाणिजिका मूढाः फलकामा नराधमाः । अर्च्चयन्ति जगन्नाथं ते कामान्नाप्नुवन्त्युत ॥” इति मलमासतत्त्वधृतविष्णुधम्मात्तरीयतृतीय- काण्डीयवचनम् ।